________________
२०७
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । पक्षत्वेनारोपितवस्तुवर्णनात्मने उदात्तस्यावसरः । तत्रासम्भाव्यमानभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम् । उदाहरणम् --- "मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिः कृताः
प्रातः प्राङ्कणसीम्नि मन्थरचरद्वालाख़िलाक्षारुणाः । आराद् दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका : यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥"
अङ्गभूतमहापुरुषचरितवर्णनं च ॥ ८१॥ ..
उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदारचरितानाम् अङ्गीभूतवस्त्वन्तराङ्गभावेनोपनिबद्धं चरितं चोदात्तम् । महापुरुषचरितस्योदाररूपत्वात् । उदाहरणं"तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी ।
विचरन् बाहुसहायश्चकार रक्षःक्षयं रामः ॥" धोक्तावित्यादि । असम्भाव्यमानेत्यादि । वस्तुनोऽसम्भाव्यमानविभूतियुक्तत्वेन वर्णनमित्यर्थः । उदात्तशब्दस्यौदार्यमैश्वर्यं चार्थः । तयोरैश्वर्यमत्रार्थः । उत्तरत्रौदार्यम् । ऐश्वर्यं च न स्वतः सम्भवि, किं तर्हि कविप्रतिभोत्थापितमेवेत्याह-कविप्रतिभेत्यादि । कृताः निक्षिप्ताः । अदृश्या विद्वद्भवनविभूतेरसम्भाव्यमानत्वं स्पष्टमेव ॥
पूर्वस्मालक्षणवलक्ष्यवाचिनोऽप्युदात्तशब्दस्यार्थो भिद्यते । औदार्यवाचकत्वात् । अतो वाचकशब्दस्वरूपसाम्यमेवानन्तर्यहेतुरित्याह-उदातशब्दसाम्यादिति । महापुरुषाणामित्यस्य व्याख्या उदारचरितानामिति । अङ्गभूतेत्येतच्च न महापुरुषाणां विशेषणम् , अपि तु तचरितस्य तात्कालिकं विशेषणम् । अङ्गभावश्च न महापुरुषसम्बन्धिन्येव प्रधानभूते
१. 'कस्योदा', २. 'यथा-मु', ३. 'धा' क. ख. पाठः. . शि' ग. पाठः. ५. 'यथा-त', .. 'निवसन्' फ. ख. पाठः. . 'द्विभू' ख. पाठ:.