________________
अलहारसूत्रं प्रतिपादकं कथं प्रयोजकीभवेद् , यदि वस्तुसन्निवेशिधर्मगतत्वेनापि भाविकं स्यात् । तस्माद् वास्तवमेव महत्त्वमुत्तरप्रकारविषये वर्णितमिति नायमत्रालङ्कारः। यदि तु वास्तवमपि सौन्दर्य कविनिबद्ध कविनिबद्धवक्तृनिबद्ध वा सकलवक्त्रगोचरीभूतं स्वभावोक्तिवदलङ्कारतया वयेत, तदायमपि प्रकारो नातीव दुःश्लिष्टः । अत एव
“प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः।
तद्भाविकम्” इसेतावदेवान्यै विकलक्षणमकारि । स्वभावोक्त्या किश्चित्सादृश्यात् तदनन्तरमस्य लक्षणं कृतम् ॥
समृद्धिमद्वस्तुवर्णनमुदात्तम् ॥ ८॥
स्वभावोक्तौ भाविके च यथास्थितवस्तुवर्णनम् । तद्विअत्यद्भुता भूतभाविनोऽर्था यत्र प्रत्यक्षा इव दृश्यन्ते वाचामनाकुल्येन तद् भाविकं स्यादित्यन्वयः । अनयोश्च भामहोद्भटवचनयोः प्रतीकोपादानं तावन्मात्रस्य सिसाधयिषितार्थापयिकतया । अयमर्थः- यदि वस्तुसन्निविष्टेनापि प्रत्यक्षायमाणत्वेन भाविकत्वं स्यात् , तदा भामहोद्भटाभ्यां प्रत्यक्षायमाणत्वं प्रति हेतुतयोपन्यस्तं व्यत्यस्तसम्बन्धराहित्येन झटित्यर्थसमर्पकत्वलक्षणं वाचामेनाकुल्यं कथं प्रयोजकं स्यात् । सकलवक्त्रगोचरीभूतं सकलानां वक्तृणामगोचरतां गतम् । नातीव दुःश्लिष्टः, किञ्चिद् घटत एवेत्यर्थः । अत एव वस्तुसन्निवेशिधर्मगतत्वेनापि भाविकत्वाङ्गीकारात् । एतावदेवेत्येवकारेण भामहादिवद् वाचामनाकुल्यं नोपात्तमिति दर्शयति । किश्चित्सादृश्यादिति । उभयत्र सूक्ष्मवस्तुस्वभाववर्णनस्य विद्यमान
त्वात् ।
- उदात्तस्य भाविकानन्तर्य विरोधसम्बन्धो हेतुरित्याह --- स्वभा.
. १. 'श', २. 'दि वा' ग. पाठः. ३. यंते, त' क. ख. पा. .. भार्थस्थि', ५. 'मानुकू व्यं' म. पाठः.