________________
सम्याख्यालङ्कारसर्वस्वोपेतम्। "अनातपत्रोऽप्ययमत्र लक्ष्यते
सितातपरिव सर्वतो वृतः। अचामरोऽप्येष सदैव वीज्यते
विलासबालव्यजनेन कोऽप्ययम् ॥" इति । अत्र प्रथमप्रकारविषयोऽयमलङ्कारो न प्रकारान्तरगोचरः। कविसमर्पितानां धर्माणामलङ्कारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपिच
"शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते" इति भामहीये 'वाचामनाकुल्येन भाविकमिति चोद्भटलक्षणे व्यत्यस्तसम्बन्धरहितशब्दसन्दर्भसमर्पितत्वं प्रत्यक्षायमाणत्व
कोलम्बाधिपते ! किरन् दिशि दिशिच्छन्नार्कभासः शरा
नीषदत्तदृगञ्चलस्त्वमधुना न द्रष्टुमीशिष्यसे ॥ अत्र विशिष्टस्य भाविदर्शनाशक्तिविषयस्यानवगतस्य वर्णनीयस्य प्रत्यक्षायमाणत्वम् । अनातपत्रोऽपीत्यादि । आतपत्रचामरात्ययेऽपि तद्वत्तया दृश्यमानत्वे वर्णनीयस्य माहात्म्यमेव हेतुः, न तु वर्णनम् । तच्च माहात्म्यं कोऽप्ययमित्यनेन प्रकटितम् । प्रथमप्रकारो वर्णनवशादेव प्रत्यक्षायमाणत्वलक्षणः । एवं स्वतः प्रत्यक्षायमाणस्य वर्णने भाविकत्वं निरस्य चिरन्तनलक्षणानुरोधाच्चैवंविधे विषये भाविकत्वं न स्यादित्याहअपिचेत्यादि।
"चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता ।
शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते ॥" स्वामिनतिता आङ्गिकादिचतुर्विधाभिनयशालित्वम्।
"प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात् तद्वाचार्मनाकुल्येन भाविकम् ॥" . १. 'पि स एव शोभते', २. 'ए' क. स. पाठ:. ३. 'नुकूल', ४. 'मानुकूल्ये' ग. पा.