SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०४ अलङ्कारसूत्र [भाविक तस्य हि स्फुटास्फुटोभयरूपवाक्यार्थगतत्वेन झटिति समर्पणं रूपम् , अस्य तु झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ स्वरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण एवालङ्कारः । लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते । यथा... "मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । - येनकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥" यथा वा हर्षचरितप्रारम्भे ब्रह्मसदसि वेदस्वरूपवर्णने । तत्र हि प्रत्यक्षमिव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव हुँमुनिवर्णनपुलिन्दवर्णनादौ ज्ञेयम् । अयं त्वत्र विचारलेशः सम्भवति । इह कचिद् वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वं, कचित् प्रत्यक्षायमाणस्यैव वर्णनम् । आy यथोदाहृतम् । द्वितीयं यथाव्यत्यस्तसम्बन्धराहित्यम् । तस्य प्रसादस्य झटित्यर्थसमर्पणमात्रत्वं रूपं न त्वर्थस्य स्फुटतया प्रतीतिरपि । अस्य भाविकस्य । झटिति समर्पितस्थेति । अर्थस्येति शेषः । सर्वोत्तीर्ण इति । प्राक्प्रदर्शितनयेन भ्रान्तिमदाद्यलङ्कारवर्गात् प्रसादगुणाच व्यावृत्तः । अलङ्कार इत्यनेन वस्तुवृत्तत्वनिरासः । लक्ष्य इत्यादिना भाविकस्यावश्याङ्गीकरणीयतां दर्शयति । मुनिर्जयतीत्यादि । समुद्रपानसमये एकचुलुकदृष्टदिव्यमत्स्यकच्छपस्यागस्त्यलक्षणस्यार्थस्य लोकोत्तरतयात्यद्भुतत्वादनाकुलशब्दप्रतिपादितत्वाच्च प्रत्यक्षायमाणत्वम् । दृष्टावित्यनेन तदवस्थाविशिष्टस्य तस्यातीतत्वमवगम्यते । भाविविषयं यथात्वद्यात्रोद्यम एव शात्रवगणः स्थाने वनं प्रस्थितो यस्मात् संयति मण्डलीकृतधनुर्मध्ये कृतावस्थितिः। १. 'स्य झ' ग. पाठः. २. 'ते । म', ३. 'ते । त' क. ख. पाठः, ४. 'क्रोभमु' ग. पाठः, ५. 'नादे', ६. 'स्यागी' ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy