________________
२०३
निरूपणम्
सब्याख्यालङ्कारसर्वस्वोपेतम्। प्रतीतौ तस्य भावात् । इह तु ताटस्थ्येन भूतभाविनां स्फुटतया भिन्नसर्वज्ञवत् प्रतीतेः । स्फुटप्रतिपत्त्युत्तरकालं तु साधारण्यप्रतीतौ स्फुटप्रतिपत्तिनिमित्तैक औत्तरकालिको रसवदलङ्कारः स्यात् । नापीयं सूक्ष्मवस्तुस्वभाववर्णनात् स्वभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसम्भवात् । इहें लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन च प्रतीतेः । कचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतौ भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलङ्कारयोरभेदः । वस्तुस्वभावसंवादरूपत्वात् स्वभावोक्तेः चितवृत्तिसंवादरूपत्वाच्च रसवदलङ्कारस्य, उभयसंवादसम्भवे तु समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णना स्यात्, तत्र स्वभावोक्तिः । अन्यत्र तु रसवदलङ्कार एव । नाप्ययं शब्दानाकुलत्वहेतुको झटित्यर्थसमर्पणरूपः प्रसादाख्यो गुणः। धारण्येन । परमाद्वैतज्ञानिनः ब्रह्मैवेदं सर्वमित्यपरोक्षज्ञानवन्तः । भिन्नसर्वज्ञाः सकलानपि भावानात्मनः पृथक्त्वेन योगबलात् साक्षात्कुर्वन्तः ।
औत्तरकालिक इति । ताटस्थ्येन स्फुटप्रतिपत्तिसमयभाविनो भाविकात् । स्वभावोक्तिलक्षणप्रस्तावे निर्णष्यमाणतया निर्दिष्टमय निर्णतुमुपक्रमतेनापीयमित्यादिना । स्वभावोक्तिनिष्ठं वस्तुनो लौकिकत्वं साधारण्येन हृदयसंवादं च भाविके व्यावर्तयति -लोकोत्तराणामिति, ताटस्थ्येनेति च । कचिदित्यादि । लौकिकानामिति स्वभावोक्तरनुप्रवेशो दर्शितः, (इति ?) स्फुटत्वेनेति भाविकस्य । भाविकव्यावृत्त्यर्थं निर्दिष्टस्य हृदयसंवादस्याविशिष्टत्वात् स्वभावोक्ते रसवदलङ्कारादपृथक्त्वमाशङ्कय परिहरति-न चेति । उभयशब्देन वस्तुचित्ते निर्दिश्यते । शब्दानाकुलत्वं
१. 'तीतिनि', २. 'त्त औ', ३. 'प्य', ४, 'स्या', ५. 'हं तु लो क. ख. पाठः. ६. 'न प्र' ग. पाठः. ५. 'तसं', . 'वात् स' क. ख. पाठः,