________________
२०२ ..... मलकारसूत्रं
[भाविकवस्तूनामादरप्रत्ययेन हृदि सन्धार्यमाणत्वात् । नापि भूतभाविनामप्रत्यक्षाणों प्रत्यक्षतयैव प्रतीरिवार्थगर्भीकारेणेयं प्र. तीयमानोत्प्रेक्षा, तस्या अभिमानरूपाध्यवसायस्वभावत्वात् । नह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते, किं तर्हि काव्यार्थविद्भिः प्रत्यक्षं दृश्यत इति । नापि वस्तुगत इवार्थ उत्प्रेक्षायाः प्रयोजकः, तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात् । यदाहुः- "अभिमाने च सा योज्या ज्ञानधर्मे सुखादिवद्" इति । काव्यविषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यत्यद्भुत. पदार्थदर्शनादतीतानागतयोः प्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्गिभावेन प्रतीत्यभावात् । योगिवत् प्रत्यक्षतया प्रतीतेः । नाप्ययं परिस्फुरद्रूपतया सचमत्कारप्रतिपत्ते रसवदलङ्कारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानिवत् योगाभ्यासबलोत्था । आदरप्रत्ययेन आदरविशिष्टेन ज्ञानेन । तस्याः उत्प्रेक्षायाः । प्रत्यक्षं दृश्यमानत्वेऽपि वस्तुनः परमार्थतोप्रत्यक्षत्वेन इवार्थस्य विद्यमानत्वादुत्प्रेक्षात्वमाशङ्कयाह - नापीति । अभिमाने चेति । ज्ञानावान्तरजातावभिमाने योज्या न वस्तुधर्म इत्यर्थः । वक्तुरपि प्रत्यक्षत्वप्रतीतेः प्रतिपत्तृधर्मत्वस्यानियममाशङ्कयाह-काव्यविषय इति । काव्यार्थनिरूपणवेलायाम् । योगिवदिति । यथा योगिनोऽतीतत्वादिविशिष्टोऽप्यर्थः पुरोवर्तितया प्रतीयते, तथा सहृदयस्येत्यर्थः। यदि पुनरपुरोवर्त्यपि पुर ईव परिस्फुरति, तदा रसवदलङ्कारः स्यादित्याशङ्कयाह----नाप्ययमिति । रत्यादीत्यादिशब्देन हासादयः विभावादीत्यादिशब्देनानुभावव्यभिचारिणश्च गृह्यन्ते । तदनुषक्ततया रत्याद्यनुषक्ततया । साधारण्येन सकलसहृदयसा
१. 'दि धार्य', २. ‘णामप्र' क. ख. पाठः. ३. 'तप्र' ग. पाठः. ४. 'सक्त्यादि', ५. 'ए', ६. 'लह' क. ख. पाठः.