________________
निरूपणम् ]
सय्यादयालङ्कारसर्वस्वोपेतम् ।
भावितयैव प्रकाशनात् । नापि रामोऽभूदिति वस्तुवृत्तमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वाख्यैस्य धर्मस्य स्फुटस्थाधिकस्य प्रतिलम्भात् । नापीदैमतिशयोक्तिः । अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाविनावभूतभावित्वेनाध्यवसीयेते, अभूतभाविनौ वा भूतभावित्वेन, नापि प्रत्यक्षमप्रत्यक्षत्वेन, अप्रत्यक्षं वा प्रत्यक्षत्वेन । नहि प्रत्यक्षत्वं केवलवस्तुधर्मः,
४
प्रतिपचपेक्षयैव वस्तुनि तथाभावात् । यदाहुः- - ' तत्र यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्ष' इति । केवलं वस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्रयुपयुज्यत । साच लोकयात्रायां चक्षुरादीन्द्रियस्वभावां योगिनौमतीन्द्रि यार्थदर्शने भावनारूपा । काव्यार्थविदां च भावनास्वभावैव । सा च भावना वस्तुगतात्यद्भुतत्वप्रयुक्ता, अत्यद्भुतानां वात् । सम्भावनापि दुःस्थेत्यत्र युक्तिमाह – भूतभावितयैवेति । स्फुटस्येत्यनेनानपह्नवनीयत्वमाह । अधिकस्येत्यनेन वस्तुवृत्तमात्रत्वनिरासः । नापीदमिति । अकमलस्य मुखादेः कमलत्वेनेव अवर्तमानस्याप्रत्यक्षस्य वर्तमानत्वेन प्रत्यक्षत्वेन च प्रतीतेरतिशयोक्तित्वशङ्का । अप्रत्यक्षस्य वस्तुनःप्रत्यक्षत्वेन प्रतीतेर्नान्यस्यान्यतयाध्यवसायाभावोऽसिद्ध इत्याह-नहीति । प्रतिपत्र पेक्षयैवेति । नहि वस्तुधर्मो गोत्वादिः स्वसत्तायां प्रतिपत्र पेक्षा - मपेक्षते । ज्ञानप्रतिभासं ज्ञानस्फुरणम् | अन्वयव्यतिरेकौ विषयसन्निधौ हि प्रत्यक्षज्ञानस्य स्फुरणं, तदसन्निधावस्फुरणं च । केवलमिति । वस्तुनः प्रत्यक्षत्वे वक्ष्यमाणा सामग्री प्रतिपत्तुरुपयुज्यते । न तु वस्तुधर्मः कश्चिदिति भावः । भावनास्वभावैवेत्येवकारः पौनर्वचनिकः । मा चेति । तच्छब्देन काव्यार्थवित्सम्बन्धिनी भावना परामृश्यते । वस्तुगतेति । न तु योगिवद्
1
१. 'तिवद् व' ग. पाठः- २. बा', ५. 'ब', ६. 'काती' ग. पाठः.
2.1
'ख्यध', ३. 'य' क. ख. पाठः. ४. 'f ७. 'त्या' क. ख. पाठः ८
'र्' क. पाठः
BB