________________
२००
अलङ्कारसूत्रं
"हुंकारो नखकोटिचञ्चुपुटकव्याघट्टनोट्टङ्कितस्तन्व्याः कुन्तलर्कण्डुकव्यतिकरे सीत्कारसीमन्तितः।
२
पृष्ठश्लिष्यदवामनस्तनभरोत्सेधाङ्कपालीसुधा
[भाविक
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥” अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ॥७९॥
अतीतानागतयोर्भूतभाविनोरर्थयोरलौकिकत्वेनात्यद्भु
४
तत्वाद् व्यत्यस्तसम्बन्धरहितशब्दसन्दर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविक, कविगतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति भावो वा भावना पुनः पुनश्चेतसि विनिवे - शनं सोऽत्रास्तीति । न चेदं भ्रान्तिमान् । भूतभाविनोर्भूतअगम्य इति पाठे मात्रशब्दः कार्त्स्यवृत्तिः । सुकविभिरेव गम्य इत्यर्थः । तन्निर्मित इति तच्छब्देनार्थसामर्थ्य लब्धानां सुकवीनां परामर्शः । यथावदित्यस्य व्याख्यानमन्यूनातिरिक्तत्वेनेति । हुङ्कार इति शब्दानुकरणम् ॥
अतीतानागतयोरित्यस्यार्थकथनं भूतभाविनोरिति । युधिष्ठिरादिवत् प्रध्वंसाभावप्रतियोगिनो भूताः । कल्किविष्णुयशः प्रभृतिवत् प्रागभावप्रतियोगिनो भाविनः । ते द्वयेऽपि प्रध्वंसप्रागभावप्रतियोगिविविक्ततया वर्तमानायमाना यदा प्रत्यक्षा इव भवन्ति, तदा भाविकम् । अत्र च प्रत्यक्षायमाणत्वे हेतुरर्थगतमलौकिकत्वार्दंत्यद्भुतत्वं, शब्दगतं व्यत्यस्त सम्बन्धराहित्याद् व्यवहितान्वयाद्यभावात् प्रसादवशेन सम्यग् झटित्यर्थानामर्पणं प्रतिपादनं च । प्रकृतिभूतस्य भावशब्दस्यार्थद्वयकथनेन भाविकं निर्वक्ति - कविगतो भाव इत्यादिना । तत्राद्यः प्रकारः शब्दानां प्रसन्नत्वाद्, द्वितीयस्त्वर्थानामत्यद्भुतत्वात् । सोऽत्रास्तीत्यनेन भावशब्दात् सप्तम्यर्थे मत्वर्थीयं ठनं दर्शयति । न चेदमिति । अन्यस्यान्यतया प्रतिभाससम्भावनामात्रेण भ्रान्तिमत्त्वशङ्का, न तु सर्वथा तस्य लक्षणमत्रास्ति, सादृश्यहेतुकत्वाभा
१. 'कौतुक', २. 'त्सङ्गाङ्क' क. ख. पाठः. ३. 'ण्ठा' ग, पाठः भा', ५. 'सि नि' क. ख. पाठः ६. 'यद्भु' ख पाठः,
४. 'वो