________________
१६.
निरूपणम्
सन्याल्याहारसर्वस्वोपेतम् । वसुरहितेन क्रीडा भवता सह कीदृशी न जिट्रेषि । किं वसुभिर्नमतोऽमून सुरासुरानेव पश्य पुरः ॥ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य । दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ॥ इति कृतपशुपतिपाशकलीलाकेलहप्रयुक्तवकोक्तेः ।
हर्षवैशतरलतारकमाननमव्याद् भवान्या वः॥" वक्रोक्तिशब्दश्चालङ्कारसामान्यवचनोऽपीहालङ्कारविशेषसंज्ञितः॥
सूक्ष्मवस्तुस्वभाव॑स्य यथावद् वर्णनं स्वभावोक्तिः ॥ ७८॥
इह वस्तुस्वभाववर्णनमात्रं नालङ्कारः । तत्त्वे सर्व काव्यमलङ्कारि स्यात् । नहि तत् काव्यमस्ति, यत्र वस्तुस्वभाववर्णनमात्रं न विद्यते । तदर्थं सूक्ष्मग्रहणम् । सूक्ष्मः कवयितृमात्रस्य गम्योऽत एव तन्निर्मित इवं यो वस्तुस्वभावः, तस्य यथावदन्यूनातिरिक्तत्वेन वर्णनं स्वभावोक्तिरलङ्कारः। उक्तिवचनप्रस्तावादिहाँस्या लक्षणम् । भाविकरसवदलङ्काराभ्यामस्या भेदो भाविकप्रसङ्गे निर्णेष्यते । उदाहरणं - मेदुरोदरेण हाराहावित्यत्र सभङ्गत्वम् । अन्यत्राभङ्गत्वम् । अलङ्कारसामान्यवचनोऽपीति । वक्रोक्तिजीवितकारादिभिस्तथाङ्गीकृतत्वात् ॥
कवयितृमात्रेत्यत्रावधारणार्थेन मात्रशब्देन पर्दैपदार्थव्युत्पत्तिमद्म्यत्वं व्यावय॑ते । तन्निर्मित इति । तच्छब्देन कवयितृपरामर्शः ।
१. 'मि', २. 'कालप्र', ३. 'तरत', ४. 'वय', ५. 'र', ६. 'स्याग', ७. 'व व' क. ख. पाठः. ८. 'नानति' ग. पाठः. ९. 'तिर्वाचोयुक्तिः तत्प्रस्ता', १०. 'ह', ११. 'यथा-टूत्कारो' क. ख. पाठ:. ११. 'दार्थ' ग. पाठः.