________________
भव्हारसूत्रं
[कोक्ति"त्वं हालाहलभृत् करोषि मनसो मूछां ममालिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धेऽस्मि किं हालिकः। सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने ।
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद् वः शिवः॥" उभयमुखेन यथा"विजये! कुशलस्न्यक्षो न क्रीडितुमहमनेन सह शक्ता। विजये कुशलोऽस्मि न तु व्यक्षोऽक्षद्वयमिदं पाणौ ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः । क इह दृष्टि विनायकमहिलोकं किं न जानासि ॥ चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् । देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ॥ हा राहौ सितदंष्ट्र भयकृति निकटस्थिते रतिः कस्योः ।
यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः ॥ सत्त्वरजस्तमोमयी । उभयत्रापि विभक्तिभेदेऽप्येकपदत्वादभङ्गश्लेषत्वम् । अखण्डो हालाहलशन्दो देव्या कालकूटार्थे प्रयुक्तो देवेन विभागपूर्वकं हालाहलयोर्द्वन्द्वपरत्वेन योजित इति सभङ्गश्लेषता । गोवाहने गौर्वृषः तद्रूपे वाहने । गवां वहनं प्रति प्रयोजकव्यापारे च । उभयमुखेनेति । सभगाभङ्गश्लेषमुखेन । विजय इत्यादि । विजय इति देवीवाक्ये सखीसंबोधनम् । त्र्यक्ष इति । त्रिनेत्रत्वादीश्वरवाचकश्च । देववाक्ये विजय इति सप्तम्यन्तम् । व्यक्ष इति देवनाक्षत्रयविशिष्टश्च । मेदुरोदरेण मम दुरोदरेण लम्बोदरेण च । विनायकं विनेश्वरं वीनां पक्षिणां नायकं गरुडं च । चन्द्रग्रहणेन चन्द्रस्यादानेन चन्द्रोपरागेण च । नास्मि रमे नाहं रतिं करोमि । हा राहौ । हेत्यव्ययम् । राहौ स्वर्भानौ हाररूपे अहौ च । वसरहितेन अर्थरहितेन अष्टवसुरहितेन च । अङ्कश्चिह्नम् उत्सङ्गश्च । अत्र
१. 'ग्धे कथं हा', २. 'शि', ३. 'स्य' क. ख. पाठः.