________________
सव्यास्था
१९७
निरूपणम्]
सध्याख्यालङ्कारसर्वस्वोपतम्। अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथायोजनं वक्रोक्तिः ॥७७॥
___उक्तिव्यपदेशसाम्याद् व्याजोक्त्यनन्तरं कथनम् । यद् वाक्यं केनचिदन्योन्याभिप्रायेणोक्तं सदपरेण वक्त्रा काकुप्रयोगेण श्लेषमुखेन वान्यथान्यार्थघटनया योज्यते, तदुक्तिर्वक्रोक्तिः । काकुप्रयोगेण यथा"गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ॥" एतद् वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपर्यन्तैतां प्रापितम् । काकुवशाद् विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः । श्लेषोऽभङ्गसभङ्गत्वेन द्विविधः । तत्राभङ्गश्लेषमुखेन यथा.. "अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी कचित् ॥" अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभङ्गया तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथालक्षणमित्यर्थः । अन्यथा 'त्वाक्षिप्यादावि'त्यादौ (तु?) व्याजोक्तिसद्भावाच्छलेषस्याविविक्तविषयता द्रष्टव्या ॥ -
अन्यथोक्तस्येत्यादि । सूत्रेऽन्यथावचनान्यथायोजनयोरेककर्तकत्वं नाशङ्कनीयमित्याह -- केनचिदिति, अपरेणेति च । काकुव॑नेर्विकारः । काकुप्रयोगेणेति । नैष्यतीत्यत्र काकुप्रयोगात् किं नैप्यति एष्यत्येव इत्यर्थों व्यवतिष्ठते । विपरीतेति । वाच्यस्य विधेः काकुवशानिषेधे सङ्क्रान्तिः, एवं निषेधस्य विधौ । दारुणा क्रूरा काष्ठेनेति च । त्रिगुणा
१. 'वचन', २. स्थाभि', ३. 'ण वा श्ले', ४. 'गे य', ५. 'न्तं प्रा', ६. 'न्तं स' क, ख. पाठः..