SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९६ अलङ्कारसूत्रं [ग्याजोक्तिः हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद् वः शिवः ॥" अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपेणापलपितः । यद्यप्यपडतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः, तथाप्यपलापमात्रचिन्तयास्यालङ्कारस्योल्लेखः। नन्वपहुतिग्रन्थे सादृश्याय योऽपह्नवः, सापडुतिः । तथा अपहवाय यत् सादृश्यं सौप्यप तिरिति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते । तत् कथमियमलङ्कारान्तरत्वेन कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयणेन तत्रोक्तम् । नहि तन्मते व्याजोक्त्याख्यभलङ्करणमस्ति । इह तु तस्य सद्भावाद् व्यतिरिक्तापह्नुतिरिति पृथगयमलङ्कारो निर्दिष्टः ॥ शैत्यप्रक्षेपेणेति । रतिशैत्यसाधारणत्वाद् रोमाञ्चादेः । सस्मितत्वख्यापनेनेति । सस्मितं दृष्ट इति दर्शनसमयभाविना मातृमण्डलादिस्मितेन देव्यालम्बनाया रतर्देवस्यानेन वचनेनापह्नव एव क्रियते इत्यस्यार्थस्य सूचितत्वात् । अपह्नवमात्रपर्यवसायि यथाव्यक्तात्मीयपराभवे सुमहति त्वद्विक्रमे किन्नरै रुगीते रिपवो विषादविगलद्वाष्पावरुद्धक्षणाः । गीतस्यास्य महानहो मधुरिमेत्याचक्षते हृष्टव न्मध्येदिव्यसभं रणे यदुपते! गीर्वाणभूयं गताः ॥ अत्र दिव्यसदसि देवीभूतानां द्विषां वर्णनीयविक्रमश्रवणजो विषादो बाष्पगलनेनोद्भिन्नो हर्षप्रक्षेपेणापलपितः । अपहुतिग्रन्थ इति । श्लेषप्रस्तावे तस्या विविक्तविषयताप्रतिपादनाय विविक्तोदाहरणत्वेन शङ्किते * 'आक्षिप्यादावि'त्यादौ त्वपहृत्यलङ्कारसद्भावप्रदर्शनपरे ‘सादृश्यव्यक्तये यत्रे'त्यादिग्रन्थ इत्यर्थः । व्यतिरिक्तापहृतिरिति । सादृश्यव्यक्तय एवापह्नवस्तस्या १. 'न्थे यथा सा', २. 'ह्नतावपि यत्', ३. 'साप', ४. 'ते। क', ५. 'श्र. येण त' क. ख. पाठः. • 'आकृष्यादौ' इतितु पूर्व पठितम् ।
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy