SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । “सङ्केत कालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥” अत्र विटसम्बन्धी सङ्केतकालाभिप्राय भ्रूक्षेपादिनेङ्गितेन लक्षितो रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आकाराद् यथा “वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धै दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । १९५ पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥” अत्र स्वेदकृतकुङ्कुमभेदरूपेणाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गलेखनेन प्रकाशितम् ॥ उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः ॥ ७६ ॥ यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां गतं सद् वस्त्वन्तरप्रक्षेपेण निगुह्यते अपलप्यते सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद् व्याजोक्तिः । यथा“शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूहोल्लस Bentongens द्रोमाञ्चादिविसंस्थुलोऽखिलविधिव्यासङ्गतो व्याकुलः । प्राय इत्यनेन सूक्ष्मोऽर्थो निर्दिष्टः । इङ्गितेन विटसम्बन्धिना । आकारेण तन्वीसम्बन्धिना । खड्गलेखनस्य पुरुषायितलक्षणसूक्ष्मार्थ प्रदर्शनायोक्तंपुरुषोचितेति ॥ ----- उत्सूत्रमप्युद्भिन्नपदसामर्थ्यलब्धमाह – निगूढमिति । लोके - हि गोप्यस्य प्रकाशीभूतत्वे उद्भिन्नव्यवहारः । उद्भिन्नमित्यस्य व्याख्या प्रकटतां गतमिति, निगुह्यत इत्यस्यापलप्यत इति । वस्त्वन्तरेत्यादिना निरुक्तिः । १. 'प्राप्तं यद् व', २. 'ढो', ३. 'भङ्गाकु' क. ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy