________________
१९२
अलङ्कारसूत्र
[अतद्गुण__ सति हतौ तद्रूपाननुहारोऽतद्गुणः ॥ ७३ ॥
तद्गुणप्रस्तावात् तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्योत्कृष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्त्या न्याय्यः।। यदा पुनरुत्कृष्टगुणसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति, सोऽतद्गुणः । तस्योत्कृष्टगुणस्यास्मिन् गुणा न सन्तीति । यदिवा, तस्याप्रकृतस्य रूपाननुहारः सत्यनुहरणहेतावतद्गुणः, तस्याप्रकृतस्य गुणा नास्मिन् सन्तीति कृत्वा । उदाहरणं“धवळो सि जइ वि सुन्दर!
तह वि तुए मज्झ रजिअं हिअअं। राअभरिए वि हिअए
सुहअ ! णिहित्तो ण रत्तो सि ॥" अत्र सूर्यरथ्यैररुणेन च स्वगतश्यामत्वलौहित्यापेक्षया सातिशयलौहिस्यश्यामत्वयोररुणमरतकयोः समीपवर्तिनोर्वर्णस्वीकरणम् ॥
तद्विपर्ययरूप इत्यनेन विरोधसम्बन्धमानन्तर्यहेतुं दर्शयति । न्यूनगुणस्येत्यादिना सूत्रे साते हेताविखनेन लब्धं दर्शयति । सन्निधानं प्रत्यासत्तिः । तद्रूपस्येत्यस्सार्थकथरमुत्कृष्टगुणश्यति, अनबुहारशब्दमयस्थाननुहरणशब्दस्य न्यूनगुणेनाननुवर्सनभिति । तस्योत्कृष्टेत्यादिमा 'नमोऽस्त्यानाम् –' (वा ० २.. २. २४) इति बहुव्रीहिं दर्शयति । लक्षणलक्ष्यगताम्यां तच्छब्दाभ्यामत्युत्कृष्टवदप्रकृतं च गृह्यत इत्याह --यदिवेत्यादिना । इहाप्रकृतशब्देनानुत्कृष्टगुण उच्यते । उत्कृष्टगुणस्यापि कदाचिद् गुणान्तरसम्पर्कादन्यथाभावः स्यादेव । स यदा न स्यात् , तदाप्यतद्गुण एवेत्यर्थः । धवलोऽसीत्यादि । : धवलोऽसि यद्यपि सुन्दर ! तथापे त्वया मम रन्जितं हृदयम् ।
रागभरितेऽपि हृदये सुभग ! निहितो न रक्तोऽसि ॥ १. 'द्वा त', २. 'क्रमेण यथा-ध' क. ख. पाठः.