SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १९१ निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । शशभृति विततधान्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयन्ति सुखमेव विमुक्तभियोऽभिसारिकाः॥" अत्र मलयजरसविलेपनादीनां चन्द्रप्रभया सहाविभाव्यतां गता इत्यभेदप्रतीतिर्दर्शिता ॥ स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः॥७२ ॥ यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टगुणवस्तुगुणस्वीकरणं, स तद्गुणः, तरयोत्कृष्टगुणस्य गुणा अरिमन्निति कृत्वा । न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणच्छादितत्वेन प्रतीयते । इह वनपद्भुतस्वरूपमेव प्रकृतं वस्तु वस्त्वन्तरगुणोपरत्ततया प्रतीयत इत्यस्त्यनयोर्भेदः । उदाहरणं - “विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानेन्यिरे वंशकरीरनालैः ॥" अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणिप्रभावोकार इति तद्गुणत्वम् ।। विलेपनादिविशिष्टा अभिसारिका निषिध्य चन्द्रप्रभा न स्थाप्यन्ते, किं तर्हि तासां परस्परभेदानुपलम्भ एव प्रतिपाद्यते ॥ सूत्रेऽत्युत्कृष्टशब्देन स्वीकारशब्देन च स्वीकर्तुः परिमित(गुण)त्वमपादानस्य समीपवर्तित्वं च लब्धमित्याह-यत्रेत्या,दे । यत्रालङ्कारे । गुणा अस्मिन्निति । उन्मजन्तीति शेषः । न चेदं मीलितामति । अत्युत्कृष्टगुणेन वस्तुना निकृष्टगुणस्य वस्त्वन्तरस्य तिरोधानान्नीलेतत्वाशङ्का । तत्र मीलिते वस्त्वन्तरतिरस्कारः, इह तु गुणमात्रस्येत्यर्थः । विभिन्नवर्णा इत्यादावुदाहरणे तद्गुणद्वयं दर्शयति -- अत्र रविरथेत्यादि । १. 'निरस्तभि', २. 'टव', ३. 'णा', ४. 'यथा-वि' क. ख. पाठः. ५. 'रस्य वस्तुन एव ति' क. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy