________________
१९३
निरूपनम्] सन्याख्यालङ्कारसर्वस्वोपेतम्।
१९३ "गाङ्गमम्बु सितमङ्ग! यामुनं
कज्जलाभमुभयत्र मज्जतः। राजहंस ! तव सैव शुभ्रता
चीयते न च न चापचीयते ॥" पूर्वत्रातिरक्तहृदयसम्पर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्र त्वप्रकृतस्य गाङ्गयामुनजलस्य सम्पर्केपि न तथारूपत्वमित्ययमप्यतद्गुण एव । धवलोऽसीति त्वतद्गुण एव । कार्यकारणभावस्यात्राविवक्षणान्न विषमालङ्कारः ॥
उत्तरात् प्रश्नोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् ॥ ७४॥
__ यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबहादुत्तरादुन्नीयते, तदेकमुत्तरम् । न चेदमनुमानं, पक्षधर्मत्वादेरनिर्देशात् । यत्रं च प्रश्नपूर्वकमसम्भावनीयमुत्तरं, तच्च न सकृत् , तावन्मात्रेण चारुत्वाप्रतीतेः । अतश्वासकृदुपनिबन्धे द्वितीयअत्रोत्तरार्धेऽतद्गुणप्रदर्शनं तत्रैवान्यैर्दर्शितत्वात् , न तु पूर्वार्धस्यालङ्कारान्तरविषयत्वाद् , इत्याह -- धवलोऽसीत्यादि । अविवक्षणादिति । हृदयस्य नायकस्य च यशःकृपाण्योरिव च कार्यकारण(भाव)स्याभावादेव, रञ्जनक्रियामुखेन सद्भावेऽपि वाविवक्षितत्वात् । न विषमालङ्कार इति । विरूपकार्योत्पत्तिलक्षणः ॥
उत्तरादित्यादि । उत्तरोपनिबन्धः सामान्यलक्षणम् । न चेदमिति । प्रतीतेनोत्तरेणाप्रतीतस्य प्रश्नस्य प्रतीतेरनुमानत्वशङ्का । पक्षधर्मत्वादेरिति । तन्निर्देशेऽनुमानस्य भावात् । तावन्मात्रेण सकृन्निर्देशमात्रेण । द्वितीयोत्तरे असम्भावनीयोत्तरविधानस्य सम्भावितोत्तरनिषेधपरत्वात्
१. 'त्र प्र' क. स. पाठः. २. 'रो' ग. पाठः.
AA