________________
सम्याख्यालङ्कारसर्वस्वोपेतम् ।
१७५
निरूपणम् ] श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । अत्र च नियमपरिसङ्ख्ययोर्वाक्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसङ्ख्येति सामानाधिकरण्येनोक्तिः । अत एवात्र पाक्षिके प्राप्तिरपि स्वीक्रियत इति युगपत् सम्भावनं प्रायिकम् ॥
दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः ॥ ६३ ॥
दण्डापूपयोर्भावो दण्डापूपिका । 'इन्द्वमनोज्ञादिभ्यश्व ' (५. १. १३३) इति वुञ् । पृषोदरादित्वाद् वृद्धयभावः । यथा अहमहमिकेत्यादाविति केचित् । अन्ये तु दण्डापूपौ विद्येते यस्यां नीतौ सा दण्डापूपिका नीतिः । एवमहं शक्तो
—
अथ शब्देनोपादेयं, तदार्थत्वं न घटत इत्याशङ्कयाह - अत्र चेति । तद्धर्मयोगित्वेन लोकसिद्धेषु वस्तुषु सत्स्वप्यलौकिकवस्तुग्रहणालौकिकवस्तुव्यवच्छेदः पर्यवसानवृत्त्या लभ्यते, न तु साक्षादिति व्यवच्छेद्यस्य साक्षादवगत्यपेक्षायां शाब्दत्वं यथाकथञ्चिदप्यवगत्यपेक्षायामार्थत्वमिति शादार्थत्वयोर्न नियम इत्यर्थः । श्लेषसम्पृक्तत्वमिति । श्रुतिवर्त्मादिशब्दानां कर्णमार्गादिवेदमर्यादादिलक्षणार्थद्वयवाचित्वात् । एतानि चोदाहरणान्यप्रश्नपूर्वा ण्यार्थवर्जनीयानि च । आर्थश्च वर्जनीयो नगरवासी जनः । वाक्यवित्प्रसिद्धमिति । 'नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्ये 'त्येवंरूपम् । अत एवात्रेति । नियमपरिसंख्ययोर्भेदस्याविवक्षितत्वात् । अत्र परिसंख्यायाम् । प्रायिकमिति । 'किमासेव्यमि'त्यादौँ नगरादिसेवादौ द्युसरित्सविधसेवादेरप्राप्तत्वात् पक्षप्राप्तत्वेन युगपत् प्राप्त्यभावेऽपि 'किं भूषणमित्यादिबहुतरविषयगतत्वेन दृष्टत्वात् पूर्वं युगपत् सम्भावनमुक्तमित्यर्थः ॥
पृषोदरादित्वादिति । आदिशब्दस्य प्रकारवाचित्वाद् दण्डापूपिकाशब्दस्य पृषोदरादित्वे सति वुञो भित्त्वात् प्राप्ताया वृद्धेरभावः । 1. 'योक्तिः ।', २. 'क्य' क. ख. पाठ:. ३. 'कन्य', ४. 'दौ यु'
ख. ग. पाठः.