________________
[अर्थापत्ति
ऽहं शक्तोऽस्यामित्यहमहमिकेति मत्वर्थीयष्ठनित्याहुः । अपरे तु दण्डापूपाविव दण्डापूपिकेति 'इवे प्रतिकृतौ' (५. ३.९६ ) इति कनं वर्णयन्ति । अत्र हि मूषिककर्तृकेण दण्डभक्षणेन तत्सहभाव्य पूपभक्षणमर्थात् सिद्धम् । एष न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थादापतितं, तद्वत् कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात समानन्यायत्वलक्षणद् यदर्थान्तरमापतति, सार्थापत्तिः । न चेदमनुमानं, समानन्यायस्य सम्बन्धरूपत्वाभावात् । असम्बन्धे चानुमानानुत्थानम् । अर्थापत्तिश्च वाक्यविदां न्याय इति तन्नयेनेहाभिधानम् । इयं च द्विविधा । प्राकरणिकादप्राकरणिकस्यार्थस्यापतने एकः प्रकारः । अप्राकरणिकात् प्राकराणकस्यौदापतने द्वितीयः । आद्यो यथा --
1
1
१७६
अलङ्कारसूत्रं
“पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
दण्डापूपावित्यादि । अर्थान्तरनिष्पत्तौ न्यायसाम्यादर्थान्तरापतनलक्षणायां यस्यां नीतौ दण्डापूपौ निदर्शनत्वेन विद्येते । मत्वर्थीयष्ठनिति । 'अत इनिठनौ' (५. २. ११५ ) इति विहितः । 'इवे प्रतिकृतावित्येतदधिकारप्रदर्शनपरम्, अप्रतिकृतित्वादनेन प्राप्त्यभावात् । दण्डापूपिकाशब्दः कस्यचिद् दण्डापूपसदृशस्य नीतिविशेषस्य संज्ञेत्युत्तरसूत्रेण 'संज्ञायां कन्नू' (५. ३. ७५) इत्यनेन कनो विधिरभिप्रेतः । अर्थादापतितमिति । मूषिर्कंकर्तृत्वलक्षणात् । समानन्यायत्वलक्षणात् समानन्यायत्वरूपात् । यदथीन्तरमित्यत्र यच्छब्देनार्थान्तरापतनलक्षणो वाक्यार्थः परामृश्यते । असम्बन्धे चेति । लिङ्गलिङ्गिनोर्व्याप्यव्यापकभावलक्षणसम्बन्धपूर्वकत्वादनु
ख. पाठः.
१. 'रे द’, २. 'णाद', ३. 'द्विधा', ४ 'दर्थादप्रा', ५. 'स्याप' क. ६. 'कसन्निधिवर्तित्व', ७. 'तू समर्थात् । स' क. पाठः,