________________
१७४ . अलङ्कारसूत्रं ...
[परिसहधा"भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥" "कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । ...
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥" अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरब्यबच्छेदे पर्यवस्यतीति व्यवच्छेद्यं वस्त्वन्तरं शाब्दमार्थ चेति नियमामावः। अलौकिकत्वाभिप्रायेणैव क्वचित् प्रश्नपूर्वकं ग्रहणम् ।
"विलयन्ति श्रुतिवमै यस्यां
लीलावतीनां नयनोत्पलानि । बिभर्ति यस्यामपि वक्रिमाण
मेको महाकालजटार्धचन्द्रः॥” . तथा 'चित्रकर्मसु वर्णसङ्करो यतिषु दण्डग्रहणानि' इत्यादा वैशिष्टयातिशयलिङ्गगङ्गासमीपापेक्षया निकृष्टानि पुण्यदेशान्तरादीनि । भक्तिर्भव इत्यादि । इयमप्रश्नपूर्विका शाब्दवर्जनीया । कौटिल्येत्यादि । इयमप्रश्नपूर्विकैवार्थवर्जनीया मनश्चात्रार्थ वर्जनीयम् । अत्र च कचादिगतस्य कौटिल्यस्य मनोगतस्य च भेदेऽप्यभेदाध्यवसायादेकत्वम् । ननु व्यवच्छेद्ये शब्देनानिर्दिष्टे उपात्तस्य स्वरूपकथनमात्रपरता प्रतीयेत, न त्वितरव्यवच्छेदः । अत आह-अत्र चेति । तद्धर्मयोगित्वेन लोकप्रसिद्धेषु वस्तुषु सत्स्वप्यप्रसिद्धवस्तूपादानं प्रसिद्धस्य वस्तुनस्तद्धर्मयोगित्वव्युदासे पर्यवस्यतीति व्यवच्छेद्यं वस्तु शब्देनावश्यं निर्देष्टव्यमिति न नियम इत्यर्थः । अलौकिकेति । रत्नोनां भूषणत्वेन सकलजगप्रसिद्धस्वेऽपि किं भूषणमिति प्रष्टुरलौकिकं भूषणं किमित्यभिप्रायः । तद्वशाच कचित् परिसंख्याविशेषे प्रश्नपूर्वकत्वम् । अथवा यदि व्यवच्छेद्यमर्थसामादवसीयते, तदा गतार्थत्वाच्छन्देनानुपादयमिति शाब्दत्वं विरुध्यते,
१. 'यते न' ख. ग. पाठः. २. 'स्तत्तद्ध', ३. 'श्य' ख. पाठः. ४. 'कतेति', ५. 'नादीनां', ६. 'द्वेऽपि' क. पाठः,