________________
निरूपणम् ] सन्याख्यालङ्कारसर्वस्वोपेतम् ।
१७३ युगपत् सम्भाव्यते, तदा तस्यैकत्र द्वितीयादिपरिहारेण नियमनं परिसङ्ख्या । परि वर्जनेन कुत्रचित् सङ्ख्यानं वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रश्नपूर्विका तदन्यथा चेति प्रथमं द्विधा । प्रत्येकं च परिवर्जनीयस्य शाब्दत्वार्थत्वाभ्यां दैविध्यमिति चतुष्प्रभेदा परिसंख्या । क्रमेण यथा
किं भूषणं सुदृढमत्र यशो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषाः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वदपरः सदसद्विवेकम् ॥" “किमासेव्यं पुंसां सविधमनवद्यं घुसरितः
किमेकान्ते सेव्यं चरणयुगलं कौस्तुभभृतः। . किमापाद्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ॥"
वादिति । पर्याये एकमनेकस्मिन्निति निर्देशात् । वस्तु गुणादिरूपम् । द्वितीयादिपरिहारेण द्वितीयादिवर्जनेन । परि वर्ज(न इ ? नेने)ति । 'अपपरी वर्जने' (१.४.८८) इत्युक्तत्वात् । संख्यानमिति संख्याशब्दार्थमाह । सम्पूर्वात् ख्यातेभीवेऽडि संख्येति रूपं, न त्वेकत्वादिवाचिवत् करण इत्यर्थः । किं भूषणमित्यादि । अत्र प्रश्नपूर्विका शाब्दवर्जनीया परिसङ्ख्या । अत्र यशप्रभृतौ रत्नादौ चानेकत्र युगपत् प्राप्त सुदृढत्वादिविशिष्टभूषणत्वादि यशःप्रभृतौ नियम्यते । यशोधिषणंयोभूषणचक्षुट्वे उपचरिते विज्ञेये । किमासेव्यमित्यादि । इयं प्रश्नपूर्विकैवार्थ(परि ?)वर्जनीया परिसंख्या । आर्थानि च वर्जनीयानि नगरादिस्न्यादिविषयो धनादिरामणीयकादिश्व, अथवा पुराणादिप्रमाणान्तरेण सेव्यादित्वेन प्रसक्तानि - १. 'ताऽस्य', २. 'कं, व', ३. 'गुणा न', ४. 'ध्येयं च' क. ख. पाठः,