________________
१४२
- अलङ्कारसूत्रं . [परिसङ्गया"किमित्यपास्याभरणानि यौवने
धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषेषु विकीर्णतारका
विभावरी यद्यरुणाय कल्पते ॥" अत्रोत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरिवृत्तिर्यथा
"तस्य हि प्रवयसो जटायुषः
स्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेबरव्ययात्
क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥" अत्र कलेबरेण न्यूनगुणेन यशस उत्कृष्टगुणस्य विनिमयः । "दत्त्वा दर्शनमेते मत्प्राणा वरतनु ! त्वया क्रीताः।
किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥" अत्र पूर्वार्धे समपरिवृत्तिः । उत्तरार्धे न्यूनपरिवृत्तिः ॥ एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसङ्ख्या ॥६२॥
एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र किमितीत्यादि । यौवन इत्यनेनाभरणानामानुगुण्यादुत्कृष्टगुणत्वं, वार्धकशोभीत्यनेन वल्कलस्य यौवनानौचित्यद्वारा न्यूनगुणत्वं च व्यज्यते । तस्य हीत्यादि । अत्र जर्जरेत्यनेन कलेबरस्य इन्दुकिरणोज्ज्वलमित्यनेन यशसश्च न्यूनाधिकगुणत्वे व्यज्यते । समपरिवृत्तिरिति । दर्शनस्य प्राणानां च कामिनस्तुल्यत्वेनाभिमतत्वात् तुल्यगुणत्वम् । न्यूनपरित्तिरिति । रणरणकेन मनसः परिवृत्तः ॥
प्राप्ताविति । रागादिना प्रमाणान्तरेण वा । एकानेकप्रस्ता१ षे विनिकी', २. 'णेन न्यून', ३. 'ते बुधैः ।' क. ख. पाठः. ४. 'त्वान्न्यू' ख.पाठः,