SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्र [यथासमय उद्दिष्टानामर्थानां क्रमेणानुनिर्देशो यथासंख्यम् ॥ ५९ ॥ ऊर्ध्वं निर्दिष्टा उद्दिष्टाः । पश्चान्निर्देशो ऽनुनिर्देशः । स चार्थादर्थान्तरगतः । सम्बन्धश्चात्र सामर्थ्यात् प्रतीयते । ऊर्ध्वं निर्दिष्टानामर्थानां पश्चान्निर्दिधैरथैः क्रमेण सम्बन्धे यथासङ्ख्यमिति वाक्यार्थः । अन्ये त्विममलङ्कारं क्रमसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थं चेति द्विधा । शाब्दं यत्रा - समस्तानौं पदानामसमस्तैरेव पदैरर्थद्वारकः सम्बन्धः, तत्र, क्रमसम्बन्धस्यातिरोहितस्य प्रत्येयत्वात् । आर्थे तु यत्र समासः क्रियते, तत्र, समुदायस्य समुदायेन सह सम्बन्धस्य शाब्दत्वाद्, अर्थानुर्गुण्यपर्यालोचनेने त्ववयवगतः क्रमसम्बन्धः प्रतीयते । ततोऽत्र यथासंख्यस्यार्थत्वम् । आद्यस्योदाहरणं - १६६ " लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव ! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इत्यर्थः । अर्थादिति । प्रथमनिर्दिष्टानामेव पश्चान्निर्देशे पौनरुक्त्यप्रसङ्गात् । अनुनिर्देशो नामैकैकस्मिन् पदार्थे एकैकसंसर्गख्यापनम् । सम्बन्धश्चेति । प्रथमनिर्दिष्टानां पश्चादर्थान्तरनिर्देश इतीयत्युच्यमाने वाक्यस्यासम्बद्धार्थताप्रसङ्गात्, अत्र प्रथमनिर्दिष्टसम्बन्ध्यन्तरनिर्देश इति प्रतीतेः । वाक्यार्थ इति । सूत्रस्येति शेषः । संख्योपलक्षितक्रमानतिक्रमेण पदार्थान्वयप्रतीतिरस्य यथासंख्यत्वम् । पदनामर्थं प्रति गुणभावेन मिथः सम्बन्धाभावादर्थद्वारक इत्युक्तम् । अतिरोहितस्येति । समुदायसम्बन्धप्रतीतावनुपक्षीणैः शब्दैरेव प्रत्याय्यत्वादित्यर्थः । अर्थानुगु (ण्यमि?ण्ये ) ति । 1 १. 'नां क्र', २. 'धो, ३. 'नामेव प', ४. ६. ' तेनात्र', ७. 'द्यं यथा ला' क. ख. पाठः. 6. 'यत्र' ख. ग. पाठः. - 'गमप', ५. 'नाव', 'दार्थाना' ख. पाठः ९.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy