________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
१६५ पादकमन्तरेण हेतुत्वेनोपन्यासे काव्यलिङ्गमेव । तटस्थत्वे नोपन्यस्तस्य तु हेतुत्वेऽर्थान्तरन्यासः । एवञ्चास्यां प्रक्रियायां कार्यकारणयोर्वाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति । समर्थ्यवाक्यार्थस्य सापेक्षत्वात् ताटस्थ्याभावात् । ततश्च सामान्यविशेषभाव एवार्थान्तरन्यासस्य विषयः । यत् पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तं, तदुक्तलक्षणं काव्यलिङ्गमनाश्रित्य, तद्विषयत्वेन लक्षणान्तर. स्यौद्भटेराश्रितत्वात् । उक्तलक्षणाश्रयणे तु 'यत्त्वन्नेत्रेति विवितो विषयः काव्यलिङ्गस्यार्थान्तरन्यासाद् दर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयं गमनिकायितव्या ॥
एवं तर्कन्यायमूलमलङ्कारद्वयमिह प्रतिपादितम् । अधुना वाक्यन्यायमूला अलङ्कारा उच्यन्ते । तत्र - इत्यस्य । तत्रैवेत्येवकारेण हेतुत्वेनोपादानं व्यवच्छिनत्ति । हेतुत्वेनोपन्यासे सापेक्षत्वेन निर्देशे । तटस्थत्वेन निरपेक्षत्वेन । एवञ्चेति । काव्यलिङ्गार्थान्तरन्यासयोर्व्यवस्थितविषयत्वे । कार्यकारणेति । 'सहसा विदधीते'त्यादौ 'पृथ्वि! स्थिरीभवे'त्यादौ च । उक्तलक्षणं 'हेतोर्वाक्यपदार्थत्वे' इत्येवंरूपम् । तद्विषयत्वेन काव्यलिङ्गविषयत्वेन । लक्षणान्तरस्य प्रत्याय्यप्रत्यायकभावविषयहेतुत्वात्मनः । यदुक्तं - ___ "श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥" इति । विविक्तो विषय इति । कार्यकारणभावप्रतीतिशून्यो ज्ञाप्यज्ञापकभावमात्रोपलक्षितः ॥ ___ वाक्यन्यायो मीमांसान्यायः । ऊर्ध्वं निर्दिष्टाः प्रथमं निर्दिष्टा
१. 'तयोप', २. 'स्य हे', ३. 'णवाक्या', ४. 'यणीया ॥', ५. 'यं प्र' क. ख. पाठः, ६. 'तरल' क. पाठः.