________________
-१६४
अलङ्कारसूत्रं
[अनुमान
अत्र योषितां भ्रव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्येऽनलङ्कृतमेव साधनमिति शुद्धमनुमानम् । प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेने च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिण्डार्थः इहास्ति प्रत्याय्य प्रत्यायकभावः । अस्ति च समर्थ्य समर्थक भावः । तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतसमर्थने तु समर्थ्य समर्थकभावः 1 तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् | समर्थ्य समर्थकभावे तु यत्र पदार्थों हेतुस्तत्र हेतुत्वेनोपादाने
-
"नागेन्द्र हस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः”
इत्यादाविव न कश्चिदलङ्कारः । यत्र तूपात्तस्य हेतुत्वं यथोदाहृते विषये 'मृग्यश्च दुर्भाङ्कुरनिर्व्यपेक्षाः' इत्यादौ, तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थस्य हेतुत्वं तत्र हेतुत्वप्रति -
"
र्णम् । स्मरपुरोगामित्वे इति । योषितां पुरः स्मरगमन इत्यर्थः । ननु यद्यत्रालङ्कारान्तरस्यानवतरः, तत् कथं तर्कानुमानवैलक्षण्यमत आहप्रौढोतीति । योषिद्व्यापारविषयीकृतस्य रागो वर्धत इत्येतावदेव लोके सम्भवति, न तु स्मरमार्गणपतनम्, अदृष्टत्वात् । एवमेव कुण्डलि - कोदण्डस्य स्मरस्य धावनमप्यसम्भवि । अतः साध्यसाधनयोरुभयोरपि कविनिबद्धस्य प्रतिभामात्रनिर्वृत्तत्वात् प्रौढोक्तिमात्रनिष्पन्नत्वम् । अर्थान्तरन्यासकाव्यलिङ्गानुमानानां हेतुहेतुमद्भावावलम्बनेन प्रवृत्तावविशिष्टायामपि विशेषं दर्शयितुमाह – अयमत्रेति । प्रत्याय्यप्रत्यायक समर्थ्य समर्थकभावयोः प्रत्याय्यं समर्थ्यं च हेतुमत्, प्रत्यायकः समर्थकश्च हेतुः । अप्रतीतप्रतीतविषयत्वेन प्रत्यायनसमर्थनयोर्भेदात् प्रत्याय्यप्रत्यायकसमध्ये समर्थक्रभावयोर्भेदः । उपात्तस्य विशेषणद्वारा मृग्यश्चेत्यादौ व्यापारयन्त्य
1
।
१. 'न वि' क. ख. पाठः २. 'योर्भेदः ।' ख. ग. पाठ :.
-