________________
१६३
निरूपणम्]
सव्याख्यालङ्कारसर्वस्वोपेतम्। साध्यसाधननिर्दशोऽनुमानम् ॥ ५८॥
यत्र शब्दवृत्तेन पक्षधर्मतान्वयव्यतिरेकवत् साधनं साध्यप्रतीतये निर्दिश्यते, सोऽनुमानालङ्कारः। विच्छित्तिविशेषश्चात्रार्थादाश्रयणीयः । अन्यथा तर्कानुमानात् किं वैलक्षण्यम् । उदाहरणं“यथा रन्ध्र व्योम्नश्वलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः। यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ
स्तथा मन्ये लग्नः पथिकतरुषण्डे स्मरदवः ॥" अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्निलिङ्गानि त्रिरूपत्वाद् दवशब्दप्रतिपादितं वह्निं गमयन्तीत्यनुमानम् । रूपकमूलत्वेनालङ्कारान्तरगर्भीकारेण विच्छित्त्याश्रयणात् तर्कानुमानवैलक्षण्यम् । कचित्तु शुद्धमपि भवति । यथा“यत्रैता लहरीचलां चलदृशो व्यापारयन्ति ध्रुवं
यत् तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापमैञ्चितशरप्रेङ्खत्करः क्रोधनो . धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥"
पक्षधर्मतेत्यादि । पक्षधर्मता च सिसाधयिषितधर्मविशिष्टे धर्मिणि वृत्तिः । अन्वयः स्वान्वये साध्यान्वयः । व्यतिरेकः साध्यव्यतिरेके स्वव्यतिरेकः । एतत्रितयवत् । अर्थादिति । काव्यशोभाकरत्वेनालङ्कारत्वसंभवात् । अन्यथा विच्छित्तिविशेषानाश्रयणे । त्रिरूपत्वादिति । पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद् व्यावृत्तिरिति त्रीणि रूपाणि । जलदधूम इत्यादिरूपकवशादुत्थितत्वेनानुमानस्य तन्मूलत्वम् | शुद्धम् अलङ्कारान्तरासङ्की
१. 'ण्यम् । यथा-य', २. 'संहित', ३. 'त' क. ख. पाठः,