________________
अलङ्कारसूत्रं
शेषणत्वेनानेकपदार्थो हेतुरुक्तः । एवमेकवाक्यार्थपदार्थगतत्वेन काव्यलिङ्गमुदाह्रियते । यथा"मनीषिताः सन्ति गृहेषु देवता
१६२
·
स्तपः क्क वत्से ! क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्पं न पुनः पतत्रिणः || ”
"यद्विस्मयस्तिमितमस्तमितान्यभाव
[काव्यलिङ्ग
मानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव कथमानमास्ते ॥" पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधे मनीषिता इति वाक्यार्थभूतो हेतुर्निर्दिष्टः । उत्तरत्र पुनरस्तमितान्यभावमित्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः ॥
श्यविनोदाक्षमः । यथा कश्चिद् द्वेष्यजनस्येति व्याप्तिप्रदर्शनम् । दैवं च सदृशानीन्दीवरादीनि तिरस्करोतीत्युपसंहारः । तस्मात् सादृश्यविनोदाक्षममिति निगमनमित्येतत्सर्वमर्थसामर्थ्यादवसीयते, न तु शब्दत इति तर्कवैलक्षण्यम् | अनेकपदार्थ इति । व्यापारयन्त्यो दिशीत्यादिपदपञ्चकप्रतिपादितं मृगीलक्षणधर्मिगतत्वेन संबोधनप्रयोजकत्वं साध्यं, तत्र हेतुर्वि - शिष्टलोचनव्यापारणं तस्य च कर्तृभूतासु मृगीषु वृत्तेः पक्षधर्मत्वमस्त्येव । संबोधनविलोचनव्यापरणयोः साध्यसाधनयोर्व्याप्तिरदेशिकसंबोधयितार देशिके सुग्रहैवेति व्याप्त्यादयः पूर्ववदार्थाः, न तु शाब्दा इति तर्कवैलक्ष - ण्यम् । पूर्वत्रेत्यादि । तपः क्व वत्से ! क्व च तावकं वपुरिति प्रतिपादितस्य पार्वतीलक्षणधर्मिंगतस्य तपोनिषेधविषयत्वात्मनः साध्यस्य निजगृहसन्निहिताभिमतदेवताकत्वं मनीषिताः सन्ति गृहेषु देवता इत्येकवाक्यार्थत्मकं साधनम् । तयोश्च व्याप्त्यादयः पूर्ववद् द्रष्टव्याः ॥
१, 'थंग', २. 'रूपो हे, ३. 'पदद्वा' क, खे. पाठा,