________________
१६१
निरूपणम्]
सव्याल्यालङ्कारसर्वस्वीपेतम् । वैलक्षण्यार्थ काव्यग्रहणम् । नपत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबन्धव्यः, नोपनिबद्धस्य हेतुत्वम् । अन्यथार्थान्तरन्यासान्नास्य भेदः स्यात् । क्रमेणोदाहरणं- .. “यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं ___ मेधैरन्तरितः प्रिये ! तव मुखच्छायानुकारः शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥" "मृग्यश्च दर्भाङ्कुरनियंपेक्षा
स्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्या
मुत्पक्ष्मराजीनि विलोचनानि ॥" पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुत्वेनोपन्यस्तः। उत्तरत्रं तु सम्बोधने व्यापारयन्त्य इति मृगीविवृत्तित्वेन साध्यं प्रति विशेषणतया आर्थहेतुतया लिङ्गभूतः पदार्थो निबध्यते, न तु तृतीयापञ्चम्यन्ततया शाब्दहेतुतया । तर्कवैलक्षण्यमुपपादयति-नह्यत्रेति । क्रियन्त इति । शब्देन न प्रतिपाद्यन्ते, अर्थसामर्थ्यादवसीयन्त इत्यर्थः । हेतुत्वेनैवेति । यथा उपक्रम एव साध्यसाकाङ्क्षतया प्रतीयमानो हेतुत्वेनैव प्रतीयते तथोपनिबन्धनीयः । नोपनिबद्धस्येति । यथा आमुखे नैराकाझ्यप्रतिभासादप्रतीतं पश्चात् पर्यालोचनया प्रतीयते, न तथा कर्तव्यमित्यर्थः । पूर्वत्रेति । यत्त्वन्नेत्रत्यादौ । अत्र दैवे धर्मिण्यस्मदर्थसम्बन्धि प्रियतमासादृश्यविनोदाक्षमत्वं धर्मः साध्यः, तेत्र प्रियतमावयवसदृशानामिन्दीवरादीनां मज्जनादिक्रिया हेतुः । सा च क्रिया दैवे धर्मिणि कर्तृभूतेऽवतिष्ठत इति पक्षधर्मता । यः सदृशद्रव्याणि तिरस्करोति, स साह
१. ‘ोप', २. 'दो भवेत् ।', ३. 'ण यथा ---- य , ४. 'री', ५. 'का', ६. 'यशसस्ते', ७. 'थ', ८. 'त्र सं' क. स. पाठः. ९. 'अ' ख. पाठः.
__
w