________________
१६०
अलङ्कारसूत्रं
[काव्यलिङ्ग
उत्तरोत्तरमुत्कर्षः सारः ॥ ५६ ॥ पूर्वपूर्वपेक्षयोत्तरोत्तरस्योत्कृष्टत्वनिबन्धनं सारः । यथा - "रोग्य सारं वसुवा वसुन्धरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥”
अंत्र राज्यापेक्षया वसुधायाः सारत्वं, वसुधापेक्षया पुरस्य । एवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् ॥
एवं शृङ्खलावृत्त्यालङ्काराः प्रतिपादिताः । अधुना तर्कन्यायाश्रयेणालङ्कारद्वयमुच्यते । तत्र हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् ॥ ५७ ॥
यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबध्यते, तत् काव्यलिङ्गम् । तर्क - कर्तृकमरिशिरः समासादनमुत्कृष्टं ततोऽप्यरिशिरः कर्तृकं भूमण्डलैसमासादनम्, एवमन्यत्रापि । अथवा, उत्तरोत्तरस्य शर रिशिरःप्रभृतेररिशिरो भूमण्डलादिप्राप्तिहेतुत्वेन पूर्वपूर्वक दण्डशरादिकर्तृकं समासादनमभिमतमपेक्षितमित्यर्थः ॥
पूर्वपूर्वापेक्षयेति । पूर्वपूर्वमवधीकृत्येत्यर्थः । गृहस्येत्यनेन सौधं निर्दिश्यते | योजनीयमिति । सौधापेक्षया तदेकदेशवर्ति तल्पं, तल्प/पेक्षया तदेकदेशवर्तिन्यनङ्ग सर्वस्वभूता वराङ्गना च सारमित्यर्थः ॥
accod
तर्कन्यायाश्रयेणेति । केनचिद्धेतुना कस्यचिदर्थस्य प्रतीतिस्तर्कन्यायः । तत्र प्रत्यायकस्य साधनत्वमर्थ सामर्थ्य लभ्यं शब्दप्रतिपन्नं चेति ः । काव्यलिङ्ग, द्वितीये त्वनुमानम् । कारणरूप इत्यादि । वाक्यार्थगत्या वाक्यर्थवृत्तित्वेर्ने प्रतिपन्नो वाक्यार्थो वाक्यार्थान्तरं प्रति लिङ्गत्वेन निबद्ध इत्यर्थः । विशेषणद्वारेण वेति । विशेषण भूतपदार्थ
-
१. 'स्कर्षनि', २. 'ते । हे' क. ख. पाठः. ३. 'लासा' ख. पाठः. ४'न कारणरूपत्वेन प्र' क. पाठः.