________________
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
१५९
पूर्वपूर्वस्योत्तररोत्तरगुणावह मालादीपकम् ॥ ५५ ॥
उत्तरोत्तरस्य पूर्वं पूर्व प्रत्युत्कर्षहेतुले एकावली | पूर्वपूर्वस्ये तूत्तरोत्तरं प्रत्युत्कर्षनिबन्धनत्वे मालादोपकम् । मालात्वेन चारुत्वैविशेषमाश्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कर्षहेतुत्वम् । यथा " सङ्ग्रामा ङ्कणसङ्गतेन भवता चापे समारोपिते संप्राप्ते परिपन्थियोधनिवहे सांमुख्यमासादिताः । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
55
तेन त्वं नृपते ! त्वया सितयशस्तेनापि लोकत्रयम् ॥ अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षोऽभिहितः । समासादनक्रियालक्षणनिबन्धनं च दीपकं दीपनविषयाणामुत्तरोत्तराभिमतत्वेन कृतम् ॥
एकावल्या वैपरीत्यलक्षणः सम्बन्धो मालादी करय तदनन्तरलक्षणे हेतुरित्याह – उत्तरोत्तरस्येत्यादि । कोदण्डादीत्यादिशब्देन शरादयो गृह्यन्ते, शरादीत्यादिशब्देन रिशिरःप्रभृतयः । कोदण्डादिहेतुकः शरादीनां कोदण्डादिकर्तृकासादनकर्मत्वलक्षण उत्कर्षः कविनामिति इत्यर्थः । उत्कृष्टं हि लोके आसादनीयं भवति । यद्वा, अरिशिरः प्राप्त्यादिलक्षणः शरादीनामुत्कर्षः । तस्य च कोदण्डाद्यासादितत्वमन्तरेण । भावात् कोदण्डादिहेतुत्वम् । विहित इति पाठे कोदण्डादिभिरिति कर्तरि तृतीया । समासादनेकिया. लक्षणानेबन्धनमिति । समासादनक्रियारूपं निबन्धनं समानधर्मों यस्य तत्तथा । दीपनविषयाणां शरादीनां कर्मणाम् । उत्तरोत्तराभिमतत्वेनेति । यथोत्तरमुत्कृष्टत्वेन । तद्यथा कोदण्डकर्तृकात् शरसमासादनात् शर
'त्वमा' क. ख. पाठः.
४. 'तम्'
निरूपणम् ]
१. 'र्वस्य पू', ५. ‘नल’,
क. पाठ:.
२.
'स्योत्त', ३. ६. 'रासा' ख. पाठः.