________________
अलङ्कारसूत्रं
कार्यकारणक्रम एवात्र चारुत्वहेतुः ॥
१५८
यथापूर्वं परस्य विशेषणतया स्थापनेऽपोहने
[ एकावली.
वैकावली ॥ ५४ ॥
यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति, स एकावल्यलङ्कारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा । स्थापनेन यथा"गृहाणि यस्यां सवराङ्गनानि
वराङ्गना रूपपुरस्कृताङ्गन्यः ।
रूपं समुन्मीलितसद्विलासनस्त्रं विलासाः कुसुमायुधस्य ॥”
अत्र वराङ्गना गृहाणां विशेषणं स्थापनीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा --
“न तज्जलं यन्न सुचारुपङ्कजं
न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥”
अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन निबद्धम् । एवं पङ्कजादीनामलीनषट्पदत्वादि ज्ञेयम् ॥
जयस्य विनयादीनशेषान् प्रति कारणत्वं विवक्षितम् । तच्च तथा निर्दिष्टं न चारुतामावहतीति क्रमस्य स्वीकारः ॥
सूत्रे यथापूर्वमित्यत्र वीप्साया दर्शितत्वात् परस्येत्यत्रापि सा द्रष्टव्येत्याह – परं परमिति । स्थापनेन निवर्तनेन वेति । विधिखेन निषेधमुखेन वेत्यर्थः ॥
१. 'ना', २. 'ए' क. ख. पाठः.