________________
निरूपणम्] सव्याख्यालंकारसर्वस्वोपेतम् ।
१५७ हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु-“यदि बाल इति, सुतरामपरित्याज्योऽस्मि । रक्षणीय इति, भवद्भुजपञ्जरमेव र. क्षास्थानम्" इत्यादि । अत्र राज्यवर्धनस्य श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत् सम्भावितं, तत् प्रत्युताप्रस्थापनलक्षणस्य विरुद्धरय कारणत्वेन सुकरतया समर्थितमिति व्याघातोऽलङ्कारः॥
___ एवं विरोधमूलानलङ्कारान् निर्णीय शृङ्खलाबन्धेन विचित्रिता अलङ्कारा लक्ष्यन्ते । तत्र -
पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला ॥ ५३ ॥ __यदा पूर्वं पूर्वं क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते, तदा कारणमालाख्योऽयमलङ्कारः । यथा"जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षण जनोऽनुरज्यते
जनानुरागप्रभवा हि सम्पदः ॥” विरुद्धेषु पुनः सौकर्यमतिरिच्यत इत्येतावदित्येवंरूपोऽर्थः परामृश्यते । भेदमेवोपपादयति-तत्रेति । विषमे कारणरयाभिमतकार्यानुत्पादकत्वमुँत्पाद्यमानस्यानर्थत्वं च नियमेनापेक्षितम् । व्याघाते द्वे अपि कार्ये उत्पाद्ये । उत्तरकार्यस्यानर्थत्वं च न विवक्षितम् । सौकर्यमेव विवक्षितमित्यर्थः । तत् प्रत्युतेति । (तद्) बाल्यरक्षणीयत्वादि ॥
शृङ्खलाबन्धो नाम शृङ्खलावदुत्तरोत्तरग्रथितत्वेन निबन्धः । कार णमालेति । मालावद् बहूनां कारणानां ग्रथितत्वात् । इन्द्रिय(स्य ?)
१. 'ज्यः । र', २ 'रं र', ३. 'यस्य सु' ख. पाटः. ४. 'बाल', ५. 'ख्योऽलं' क. ख. पाठः. ६. 'षु तु सौ' ख. पाटः. ७. 'त्र हीति' क. ख. पाठः. ८. 'मुपपाद्य' क. पाठ:.