________________
१५६
अलकारसूत्रं
[व्याघातप्रकारान्तरेणाप्ययं भवतीत्याह - सौकर्येण कार्यविरुद्धक्रिया च ॥ ५२ ॥
व्याघात इत्येव । किञ्चित् कार्य निष्पादयितुं सम्भाव्यमानः कारणविशेषस्तत्कार्यविरुद्ध निष्पादकत्वेन यत् समर्थ्यते, सोऽपि सम्भाव्यमानकार्यव्याहतिनिबन्धनत्वाद् व्याघातः । कार्यविरुद्धकार्यनिष्पत्तिश्व कार्यापेक्षया सुकरा । तस्य कारणरयात्यन्तं तदानुगुण्यात् । न त्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद् विषमाद् भेदः । तत्र हि कार्यरयानुत्पत्तिरनर्थस्यै चोद्गमनम् । इह तु कार्य सुखकार्यं न भवति । तद्विरुद्धस्यानर्थव्यतिरेकिणोऽप्येत्र सुष्ठुकार्यत्वात् । उदाहरणं
प्रकारान्तरेणेति । पूर्वत्र निष्पन्नस्य कार्यस्य तद्विरुद्धजननादन्यथाकरणम् । इह तु कार्यविशेषनिष्पादकतया सम्भावितस्य कारणस्य तद्विरुद्धकार्यनिष्पादकत्वेन समर्थनादन्यथाकरणमित्यस्य प्रकारान्तरता । अत एव तद्भेदकत्वेनावचनम् । नामसाम्यं तु व्याहतिहेतुत्वलक्षणस्य निर्वचनस्य साधारण्यात् । सौकर्येणेत्यादि । समर्थ्यमानेति शेषः । कार्यत्वेन सम्भावितस्य विरुद्धं यत् कार्य, तस्य सौकर्येण हेतुना निष्पत्तिसमर्थनमिति सूत्रार्थः । चशब्देन व्याघात इत्येतदनुकृष्यत इत्याह – व्या. घात इत्येवेति । अत्यन्तं तदानुगुण्यादिति । सम्भाव्यमानकायापेक्षया विरुद्धकार्य प्रति निष्पादकत्वस्य स्फुटतया प्रतिभासादित्यर्थः । नन्वेव विरुद्धकार्योत्पत्तिरविशिष्टेत्यनर्थोत्पत्तिलक्षणाद् विषमभेदादस्य को भेद इत्याशङ्कयाह -अत एवेत्यादि । अत्रातश्शब्देन न त्वत्रेत्यादिना प्रतिपादितः अस्मिन् व्याघाते कार्याभिमतस्यापीति कार्यत्वं तद्विरुद्धस्यापि,
१. 'द्धपरिनि' क. ख. पाठ:. २. 'र्यानु', ३. 'स्यागम', ४. 'यं का', ५. 'पि सु', ६. 'त् । यथा-ह' ख. पाठः,