________________
१५५
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम्।
यथा साधितस्य तथैवान्येनान्यथोकरणं व्याघातः ॥ ५१ ॥
कञ्चिदुपायविशेषमवलम्ब्य केनचिद् यन्निष्पादितं वस्तु, तत् ततोऽन्येन केनचित् तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यों क्रियते, स निष्पादितवस्तुव्याहतिहेतुत्वाद् व्याघातः। यथा
"दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
विरूपाक्षस्य जयिनीस्ताः स्तुवे चारुलोचनाः ॥" अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेनं तस्य जीवनविषयत्वं क्रियते । तच्च दाहविषयत्वस्य प्रतिपक्षभूतम् । तेन व्याघाताख्योऽयमलङ्कारः । सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्येति चारुलोचना इति च व्यतिरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः । पूर्ववदिह प्रकरणे लक्षणम् ॥
सूत्रे यथातथोपादानादवगतमुपायैक्यमन्येनेत्यनेनावसितं साधयिबोर्भेदमन्यथेत्यनेन लब्धं तयोर्विरोधं च दर्शयति- कश्चिदित्यादिना । सोऽपीति । सः व्याघातः । व्यतिरेकनिमित्तत्वेनेति । हरादुपमानादुपमेयानां चारुलोचनानामाधिक्यलक्षणस्य व्यतिरेकस्यानुग्राहकत्वेन । व्यतिरेकगर्भाविति । उपमाननिकर्षोपमेयोत्कर्षनिमित्तदृग्वैरूप्यदृक्चारुत्वलक्षणार्थगर्भावित्यर्थः । पूर्ववदिति । विशेषवद् , विरोधप्रस्तावादित्यर्थः ।।
१. 'थी', २. 'तेनान्ये', ३. 'चित् प्र', ४. 'थी' क. ख. पाट:. ५. 'मः) क. पाठः. ६. 'न जी' क. ख. पाठः. ७. "कि' व्याख्यापाठः. ८. 'षयप्र' ख. पाठः,