________________
१५४ अलङ्कारसूत्रं
विशेषविशेषः । आनुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा"दिवमप्युपयातानामाकल्पमनल्पगुणगों येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते चन्द्याः॥" “प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा ___ पर्यङ्के सा दिशि दिशि च सा तद्वियोगाकुलस्य । हहो चेतःप्रमितिरपरा नास्ति ते कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतादः ॥" “निमेषमपि यद्येक क्षीणदोषे करिष्यसि ।
पदं चित्ते तदा शम्भो ! किं न सम्पादयिष्यसि ॥" अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरनन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधास्त्वात् । एकस्या एव योषितः प्रासादादौ युगपदवस्थानं, चित्तविषये पदकरणे प्रस्तुतेऽपि भावि लोकोत्तरवस्तुसम्पादनं क्रमेण ज्ञेयम् । आनुरूप्येति । आधेयस्य सत आधारमन्तरेणावस्थानात् , परिमितस्यांनेकदेशव्यापित्वात् , कार्यान्तरप्रवृत्तेन कार्यान्तरस्यापि करणादानुरूप्यस्य परिहारः । कवीनामाधाराणामिति । यद्यप्याकाशाधारा गिरस्तथापि ताः प्रति कवीनां वैषयिकाधारत्वमस्त्येवेत्याह - अनम्यत्रभाव इति । यथा गगने विहगश्वरतीत्यत्र विहगचरणस्यानन्यत्रभावाद् गगनं वैषयिकमधिकरणं, तथा कविभ्योऽन्यत्राभावाद् गिरोऽपि तद्विषयत्वेन तदा. धारा इत्युच्यन्ते । भावीत्यादि । लट्प्रयोगान्निर्वाणप्राप्तिलक्षणेलोकोत्तरवस्तुसम्पादनं भावि ॥
१. 'ल्पं गु', २. 'णाश्रया ये', ३. 'रितरा', ४. 'भावः ॥', ५. 'म्भावयि', ६. 'ने' क. ख. पाठः. ७. 'द', ८. 'प' क. पाठः. ९. 'ण', १०. 'रस' ख. पाठः.