________________
१५३
निरूपणम्]
सव्याख्यालङ्कारसर्वस्वोपेतम्। जननस्य विरुद्धत्वात् । क्रियाहारकं यत्र परस्परोत्पादकत्वं, न स्वरूपनिबन्धनं, स्वरूपस्य तथात्वोक्तिविरोधात्, तत्रान्योन्याख्योऽलङ्कारः । यथा
“कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद् बभूव
साधारणो भूषणभूष्यभावः ॥" अत्र शोभाख्यक्रियामुखकं परस्परजननम् ॥
अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च विशेषः ॥ ५० ॥
___ इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तपरिहारेणाधेयस्योपनिबन्धः, स एको विशेषः । यच्चकं वस्तु परिमितं युगपदनेकत्र वर्तमानं क्रियते, स द्वितीयो विशेषः । यच्च किञ्चिदारभमाणस्यासम्भाव्यवस्त्वन्तुरकरणं, स तृतीयो विरोधात् । क्रियाद्वारकमित्यादिना विरोधसमाधिं दर्शयति । एकस्यैव जन्यत्वे जनकत्वे च विरोधः, इह तु भूषणादिक्रियाया जन्यत्वं कण्ठमुक्ताकलापयोजनकत्वमिति न विरोधः। क्रियागतजन्यत्वं कण्ठहारनिष्ठत्वेन प्रतीयत इत्यामुखे विरोधस्फुरणम् । तथात्वोक्तिविरोधादिति । एकस्य कार्यत्वकारणत्वयोर्विरोधस्य दुष्परिहरत्वात् ॥
असम्भविनः सम्भवित्वेन निबन्धो विशेष इति सामान्यलक्षणं भेददर्शनवशादुन्नेतुं शक्यमित्यभिसन्धाय भेदानेव दर्शयति-अनाधा. रमित्यादिना । नभःप्रभृतेर्विभुद्रव्यस्य युगपदनेकत्रोपलम्भे सत्यपि न वैचित्र्यमित्यत आह -परिमितमिति । *इह अधिकादिप्रस्तावे ।
१. 'त' ग. पाठ:. २. 'कृ' क. पाठः. * इहानुरूप्यपरिहाररूपविरोधप्रस्तावादुक्तिः' इति मूलपाठं मन्यते व्याख्या ।