________________
१५.
अलकारसूर्य
[अन्योन्य.
वा स्यात् । क्रमेण यथा"ौरत्र कचिदाश्रिता प्रविततं पातालमत्र क्वचित् ___ वाप्यत्रैव धराधराधरजलाधारावलिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै
रे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥" "दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोचत
ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्रापर्यस्तकपालसम्पुटलसब्रह्माण्डमाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥" पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां थुप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टङ्कारध्वनेराश्रितस्य महस्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् ॥
परस्परं क्रियाजननेऽन्योन्यम् ॥ ४९॥
इहापि विरोधप्रस्ताव एव निर्देशकारणम् । परस्परचोरिति । अत्रेत्यादि । इहात्रेति शब्दस्त्रिभिनभः परामृश्यते । स्वर्गादीनामेकदेशवृत्तित्वादेवगतेन नमसः स्फीत्यतिशयेनोपजनितमहो इति वाचिकानुभावसूचितं विस्मयं कियदिदमित्यादिना क्षिपति । यस्य नभस इत्थमवस्थितैः एवंविधैर्महद्भिरपि स्वर्गादिभिः पूरणं दूरे अस्तु मा भवत्वित्यर्थः । यच्छून्यमिति नाम, तदपि नास्तं गतमित्यन्वयः । अयमर्थः--एवं महान्तः स्वर्गादयो नभसो वैपुल्यातिशयात् पूरणं मा कृषत । एतदभ्युपगच्छामः । एष्वन्तर्वर्तिष्वप्यद्यासत्स्विवान्तर्गतपदार्थराहित्यलक्षणं शून्यत्वं यस्यानुवर्तते, तस्य नभस एषां क्वाचित्कत्वेन स्फीत्यतिशयवर्णनं कीगिति ॥
विरोधप्रस्ताव एवेति । एकस्यैकां क्रियां प्रति कर्मकर्तृत्वयो- १. 'स्याद् य' क. ख. पाठः. २. 'दनव' क. पाट:.. ३. 'ग' व. पाठ:. .