________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥” अत्र लावण्यौकरत्वप्रभृतीनामिन्द्रादिभिः क्रमसम्बन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम् । द्वितीयस्य यथा“कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
१.६७
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥” अत्र कज्जलादीनां सुपर्णादिभिः सम्बद्धानां जलनिध्यादिभिः अवयवसम्बन्धमन्तरेण समुदायसम्बन्धानुपपत्तेः । क्रमसम्बन्धस्याव्यवहितत्वेनेति । क्रमपूर्वकस्याक्षेप्याक्षेपकभावलक्षणस्य सम्बन्धस्य सम्बन्धान्तरप्रतीत्यव्यवधानेन प्रतीतेः । सूत्रे उद्दिष्टानामिति बहुवचननिर्देशात् क्रमविषयाणां बहुत्वं विवक्षितम् । तच्च बहुत्वं बहूनां बहुभिः सहैकवारं द्वयोर्द्वाभ्यां द्वित्रगुणत्वादिरूपेणासकृद् वा क्रमोपनिबन्धे भवति । तदुक्तं
" तद् द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम् । यत् तेषु यैथैव तयोर्द्वयोस्तु बहुशो निबध्नीयात् ॥” इति । अत्र रम्यमित्यनेन शोभातिशयहेतुत्वं द्विगुणत्वादावुच्यते, न त्वेकगुणत्वेऽनलङ्कारता । अन्यथ लावण्यौकसीत्यादेरुद्भटोदाहरणस्य च " मृणालहंसपद्मानि बाहुचङ्क्रमणाननैः ।
निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥
39
इत्यस्यानलङ्कारत्वप्रसङ्गात् । तत्र लावण्यौकसीत्यादौ बहूनामेकवा (र)मुपनिबन्धः । द्वयोर्बहुशः क्रमसम्बन्धो यथा -- प्रणयसुभटकाये दानाम्बुशात्रवशोणितस्त्रपितककुभौ दूरावज्ञातकर्णधनञ्जये । विहितजनतायोगक्षेमे परां यदुभूपते !
भवति भजतः काष्ठामौदार्यविक्रम सम्पदौ || कजलेत्यादावुभयमप्यस्तीत्याह - अत्र कज्जलादीनामित्यादि ।
१ 'कः प्र' क. ख. पाठः २. 'व्य' ख. ग. पाठः. ३. 'यं य' क. ख. पाठः ४, 'णादा', ५. 'था वाला' ग. पाठः,