________________
०४
अहङ्कारसूत्र
[असङ्गति"प्रायः पथ्यपराङ्मुखा विषयिणो भूपा भवन्त्यात्मना
निर्दोषान् सचिवान् भजत्यतिमहाल्लोकापवादज्वरः । धन्याः श्लाघ्यगुणास्त एव विपिने सन्तोषभाजः परं - बाह्योऽयं वरमेव सेवकजनो धिक् सर्वथा मन्त्रिणः॥" अत्र पथ्यपराङ्मुखत्वंमुपलम्भविषयत्वस्य भिन्नदेशहेतुरित्यसङ्गतिः । एवं"सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम् । सा क्लान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं ___ दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥" इत्यत्रं ज्ञेयम् । अत्र च बाल्यनिमित्तमप्रगल्भवचनमन्यदन्यच्च स्मरनिमित्तमिति तयोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् ॥ कार्यकारणभावेति । विरोधश्च कार्येण कारणस्यान्वयव्यतिरेकयोरेननुविधानम् । विशेषोक्तावन्वयस्य, अतिशयोक्तावपि कारणसत्तामनपेक्ष्य तुल्यकालं पूर्वमेव वा कार्यस्योत्पत्तेर्व्यतिरेकाननुविधानकम् । स्वदेशे कारणेऽसत्यपि कार्यस्योत्पादादसङ्गतावपि तदेव । सा बालेत्यादि । ननु बाल्यनिमित्तांप्रगल्भवचस्त्वं बाल्येन हेतुना सह बालायामेव वर्तते, बालालम्बनस्मरजनितं तु स्मरेण सह कान्त एव वर्तत इति कथं कार्यकारणयोर्भिन्नदेशत्वमित्याशङ्कय भेदेऽभेदलक्षणयातिशयोक्त्यैकत्वे भिन्नदेशत्वमिति परिहरति-बाल्यनिमित्तमित्यादिना । एवमन्यत्रेति । कातर्यादौ । एवमप्यसङ्गतिर्भवतीति दर्शनायोदाहरणान्तरोपन्यासः ॥
१. 'तमास्त, २. 'यस्य, ३. 'शो हे', ४. 'श्रयैर', ५, 'त्र बा', १. 'नत्वमन्यागन्यच्च' क. च. पाठः. ७. 'पकमि' क. पाठः. ८. 'नम् । स्व', ९. 'दनाद'. पाठः. १०. 'त्तकप्र' क. पाठः. ११ 'कार्यत्व' ख. पाठः,