________________
१५
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम्। नरि नरि किरति द्राक् सायकान् पुष्पधन्वा
पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥" पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र तु माननिवृत्तिः स्मरशरप्रकिरणकार्येति तयोरुपपन्नं पौर्वापर्य व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः । कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते ॥
तयोविभिन्नदेशत्वेऽसङ्गतिः ॥ ४४ ॥
तयोरिति कार्यकारणयोः। यद्देशमेव कारणं, तद्देशमेव कार्य दृष्टम् । न तु महानसदेशस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते, तदोचितसङ्गतिनिवृत्तेरसङ्गत्याख्योऽलङ्कारः । स च विरोधिकार्यकारणभावप्रस्तावादिह लक्ष्यते । यथाप्रौढोक्तिनिर्मित इति । निस्त्रिंशधारायाः कीर्तिनिर्गमस्य द्विषलक्ष्मीप्रवेशस्य च पहिरसम्भवित्वात् कवेः कविनिबन्धस्य वा प्रौढोक्तया निमिते । व्यत्ययेनेति । कार्यभूताया माननिवृत्तेर्भूतकालविषयया निष्ठया पूर्वकालत्वस्य, कारणभूतस्य स्मरशरकिरणस्थ वर्तमानकालविषयेण लटा साध्यमानत्वस्फुरणात् पश्चात्कालत्वस्य च प्रतीतेश्च । एषा चातिशयोक्तिकारणस्य वास्तवं कार्यजनकत्वं कविसमर्पितेनाशुभावाव्यभिचारविशिष्टेन कार्यजनकत्वेन भेदेऽप्यभेदेनाध्यवसितमित्यतिशयोक्तिभेदत्वेन पूर्व निरूपिता । सम्प्रति कार्यकारणनिष्ठत्वेनास्याः कार्यकारणविच्छित्त्याश्रयेणालकारमध्ये प्रस्तावः ॥
उचितसङ्गतीति । सङ्गतेश्चौचित्यमेकदेशवर्तित्वम् । विरोधि
१. 'च', २. 'स्याशु', ३. 'बः । त', ४. 'योनि', ५. 'शि' क. ख. पाठः, ६. 'हि' क. पाठः. ७. 'ये नि',, .. 'रः । वि', ९. 'णप्र', १०. 'होच्यते'
क. ख. पाठः.