________________
१४४
अलङ्कारसूत्रं
[अतिशयोक्ति
अतिशयोक्तौ लक्षितायामपि कश्चिद् भेदः कार्यका
रणप्रस्तावेनेहोच्यते
-
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये
चातिशयोक्तिः ॥ ४३ ॥
इह नियतपूर्वकालभावि कारणं नियतपश्चोत्कालभावि च कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयेोरेतद्रूपापगमः क्रियते, तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालविप - र्यासनिबन्धनश्वति द्विधा भवन्नतिशयोक्तिमपि द्वैविध्येऽवस्थापयति । क्रमेणोदाहरणं—
“पश्यत्सूद्गतसान्द्रविस्मयरसप्रोत्फुल्लनेत्रोत्पलं
भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । कीत्र्त्या च द्विषतां श्रिया च युगपद् राजन्यचूडामणे ! हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥”
“पथि पथि शुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च ।
इव दग्धोऽपी'त्यादाāप्यस्पष्टत्वप्रसङ्गः । रूपकभेद एवेति । अधिरोपितवैशिष्ट्यं रूपकमित्यर्थः ॥
कश्चिद् भेद इति । अतिशयोक्तिनिरूपणे प्रपञ्चार्थं लक्षयिष्यत इति निर्दिष्टः । कार्यकारणयोरित्यादि । कार्यकारणयोरव्यभिचारित्वाशुकारित्वलक्षणस्यातिशयस्योक्तिरतिशयोक्तिरिति सामान्यलक्षणम् । समकालत्व इत्यादिना भेदनिर्देशः । विशेषेति । अव्यभिचारित्वादिरूपो विशेषः ।
१. 'तकालपूर्वभा', २. 'श्वाद्भाविका' ३ 'धे स्था',
५. 'तः' क. ख. पाठः. ६. 'वस्प' क. पाठः •
४. 'ण यथा –१',
-