________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । त्तिश्चात्र कचित् कार्यविरुद्धोत्पत्त्या निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित् प्रतिपाद्यते । तथाच सति“यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- .
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः। सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ . __रेवारोधसि वेतसीतरुवृते चेतः समुत्कण्ठते ॥" इत्यत्र विभावनाविशेषोक्त्योः सन्देहसङ्करः । तथाहिउत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना । तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबद्धत्वात् केवलमैस्पष्टत्वम् । साधकबाधकप्रमाणाभावाश्चात्र सन्देहसङ्करः । या तु "एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः” इति विशेषोक्तिर्लक्षिता, सास्मद्दर्शने रूपकभेद एवेति न पृथग् वाच्या ॥ सिश्चेत्यादि । यथा शक्तिमानित्यादौ । तथाच सतीति । कारणामावकार्यानुत्पत्त्योर्विरोधमुखेनोपनिबन्धे सति उत्कण्ठाकारणस्याभिनवत्वस्याभावः स एवेत्यादिना यातयामत्वलक्षणविरोधिमुखेनोपनिबद्धः । यातयामत्वलक्षणस्य कारणस्य यत् कार्यमुपेक्षणं तस्याभावः उत्कण्ठात्मकविरोधिमुखेनोपनिबद्धः । विरुद्धमुखेनोपनिबद्धत्वादिति । उभयोः कारणाभावकार्याभावयोरिति शेषः । अन्यथैकतरोपनिबन्धेऽप्यस्पष्टत्वे 'कपूर
१. 'परिव', २. 'त्युत्कण्ठाख्य', ३. 'मपीष्ट' क• ख. पाठः. ४. "स्याभा'
ख. ग, पाठः,