________________
१४
अबहारसूत्रं
[विशेषोक्ति.. इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् । या तु सत्यपि सामग्री न जनयति कार्य, सा कैश्चिद् विशेषमभिव्यक्तुं प्रयुज्यमाना विशेषोक्तिः । सा च द्विधाउक्तनिमित्ता अनुक्तनिमित्ता च । अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य चिन्त्याचिन्त्यत्वेन द्विविधत्वात् । कमेणोदाहरणं"कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥" "आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥" "स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥" अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कायस्यानुत्पत्तिः शक्तिमत्त्वस्वरूपेण विरुद्धेन धर्मेणोपनिबद्धा । अवार्यवीर्यत्वं चात्रोक्तं निमिर्त्तम् । तथा आहूत. त्वादयः सङ्कोचशिथिलीकारहेतव इति तेषु सत्स्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं संच्चिन्त्यं निमित्तम् । तथा तनुहरणे कारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमचिन्त्यमेव, प्रतीत्यगोचरत्वात् । कार्यानुत्पमन्तर्भावयति-अचिन्त्यनिमित्ता त्वित्यादिना । कार्यानुत्प
१. 'ति सि' ग. पाठः. २. 'कि', ३. 'ण यथा-क', ४. 'कुसुमधन्वने ॥', ५. 'ते', ६. 'स्वरू', .. 'ण तूप', ८. त्तम् । आह्वानाद', ९. 'चिन्त्यनि', १०. 'तम् । तनु' क, ख. पाठः.