________________
निरूपणम् ]
सन्याख्याकङ्कारसर्वस्वोपेतम् ।
इति त्वद्यतनाः । इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाद् द्विधैव । तत्रोक्तनिमित्तोदाहृता । अनुक्तनिमित्ता
यथा
---
“अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रती ॥"
अत्र सहजत्वं निमित्तं गम्यमानम् । इयं च मालयापि भ
वन्ती दृश्यते । यथा -
-
१४१
"अनिद्रो दुःस्वप्नः प्रपतनमनद्रिद्रुमतटं जराहीनः कम्पस्तिमिररहितस्वाससमयः । अनाघातं दुःखं विगतनिगला बन्धनधृतिः
सजीवं जन्तूनां मरणमवनीशाश्रयरसः || ” विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्ति
लक्षयति
-
कारणसामग्रये कार्यानुत्पत्तिर्विशेषोक्तिः ॥ ४२ ॥
"दर्शितेन निमित्तेन निमित्तादर्शनेन च ।
तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥" इत्युक्तनिमित्तत्वादिरूपेण विशेषोक्तावेव यद् भेदकथनं, तदस्या विभावनायामपि द्रष्टव्यमित्याह - इयं चेति । उदाहृतेति । अनासवाख्यमित्यत्र । अनिद्र इत्यादि । अत्रैकस्यैवावनीशाश्रयरसस्य दुःस्वप्नाद्यारोपणद्वारा कार्यभूतस्य निद्रादिबहुकारणाभावोपनिबन्धान्मालात्वम् । सजीवमित्यत्र जीवाभावलक्षणस्य हेतोरभावः सजीवत्वविरोधिमुखेनोपनिबद्धः । दुःस्वशादेः कार्यस्यारोपितत्वाद् विरोधसमाधिः ॥
सत्यपि विद्यमानापि । विशेषमित्यादिना विशेषायोक्तिर्विशेषोक्तिरिति निरुक्तिर्दर्शिता । काव्यप्रकाशकारेणाचिन्त्यनिमित्तेत्युक्तं तृतीयभेद
१. 'त्यथ' क. ख. पाठः.