________________
[विभावना
ऽप्यभेदाध्यवसायादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्बाधेनास्या उत्थानम्, अपितु तदनुप्राणितत्वेन । असम्भृतं मण्डनमिति कामस्य पुष्पव्यतिरिक्तमस्त्रमि - त्यत्र च विवदन्ते । इयमेव विभावनेति केचित् । सम्भरणस्य पुष्पाणां चै मण्डनमस्त्रं च प्रत्यकारणत्वाद् वङ्मात्रमेतत् । एकगुणहानौ विशेषोक्तिरित्यन्ये । रूपकमेवाधिरोपित वैशिष्ट्यमिति त्वपरे । आरोप्यमाणस्य प्रकृते सम्भवात् परिणाम हारः । ननु यौवनजन्यो मदः आसवजन्यान्मदात् पृथगेव । तत् कथमासवप्रतिषेधेन कारणाभावः कथ्यत इत्याशङ्कय परिहरति — मदस्य विध्येऽपीति । अतिशयोक्त्या भेदे अभेदरूपया । अव्यभिचारिणीति । न परमत्रैवोदाहरणे |
1
१४०
अलङ्कारसूत्रं
“अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम्”
-
इत्यादिष्वपि, कुङ्कुमजन्यस्य स्वाभाविकस्य च पिञ्जरत्वादेरभेदाध्यवसायस्यातिशयोक्तिमूलत्वात् । एवं तहिं येननाप्राप्तिन्यायेन विभावनैया अतिशयोक्तैर्बाधः स्यादित्याशङ्का न कार्येत्याह - तद्वाधेनेति । तदनुप्राणितत्वेन अतिशयोक्त्यनुगृहीतत्वेन । अनुग्रहश्च विभावनालक्षणापेक्षितायाः कारणाभाववतः कार्यस्वानुत्पत्तावप्युत्पत्तेरुत्पद्यमान कार्याभेदाध्यवसायेन प्रत्यायनम् । इयमेवेति । क्रियाकारणाभावे कार्योत्पत्तिरिति लक्षिता । अनासवाख्यमित्यादावुदाहृता च सैषैव, नत्वनन्तरवक्ष्यमाणविशेषोक्तिवलक्षणान्तरवतीत्यर्थः । एकगुणहानावित्यादिना वामनलक्षिता विशेषोक्तिरुच्यते । तेन कणहानिकल्पनायां साम्यदार्थ्यापादनं विशेषोक्तिरिति लक्षणं तस्या विहितम् । अत्र च सम्भरणपुष्पवलक्षणैकगुणहानि कल्पनायां मण्डनास्त्राभ्यां सह यौवनस्य साम्यदामापादितमिति वामनविशेषोक्तिसम्भावना | प्रकृते सम्भवादिति । आरोप्यमाणस्य मण्डनादेः प्रकृते देवीशरीरयष्टावुपयोगित्वादित्यर्थः । उद्भटादिभिः -
पाउ..
३.'च प्र',
१. 'स्या अव्य', २. 'ति यात्र वि',
५. 'ना' ख. पाठः. ६. 'क्वा' क. पाठः
४. 'वार्तामा ' क. ख.