________________
निरूपणम्] सध्याख्याकारसर्वस्वोपेतम् । लङ्काराद् भेदः । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुन्नेयम् । येन सापि विरोधाद् भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने कियाग्रहणं कृतं, तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । अतो विशेषमनपेक्ष्य सामान्येन कारणदमेवेह निर्दिष्टम् । येथा
"असम्भृतं मण्डनमङ्गयष्टे
रंनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात् परं साथ वयः प्रपेदे ॥" अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं, तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य दैविध्येपूर्वसिद्धत्वाभावेन तुल्यबलत्वादन्योन्यबाध्यबाधकभावः, नैवमत्रेति तस्मादस्या भेद इत्यर्थः । एवमित्यादि । पूर्वसिद्धत्वेन बलवता कार्याभावेन कारणपौष्कल्यस्यैव बाधः । नतु कारणपौष्कल्येन कार्याभावस्य । अन्यैः उद्भटादिभिः कारणेभ्यः क्रियामुखेन कार्योत्पत्तेः प्रातीतिकेन रूपेण परिदृश्यमानत्वात् क्रियैवाव्यवहितं कारणमिति मत्वा
___"क्रियायाः प्रतिषेधे या तत्फलस्य विभावना" इति लक्षयद्भिः । कारणपदमेवेति । कार्यं जनयतां कारणानामवान्तरव्यापारः क्रिया, नतु कार्य प्रति हेतुः, द्रव्यादय एव हेतव इति भावः । द्वितीये पाद् इति । अनासवाख्यं करणं मदस्येत्यत्र । प्रसिद्धमित्यनेन विशिष्टकारणाभावोपनिबन्धो निदर्शितः । यौवनहेतुकत्वेनेत्यनेन विरोधपरि
१. 'त्वं नेय' क. ख. पाठः. २. 'ह ल' ख. पाठः. ३. 'णे च य' क. पाठः. ५. 'णमे', ५, 'उदाहरणम् -अ', ६. 'तुत्वे' क. ख. पाठः. ७. 'धेऽपि यास्य' ख. पाठः... 'स्म व्यक्तिीवभा' स. ग. पाठः.