________________
अलक्कारसूत्रं
विभावना___एवं विरोधेमुक्त्वा विरोधमूलान्यलङ्कारान्तराण्युच्यन्ते। तत्रापि कार्यकारणभावमूलत्वेन विभावनां तावदाह
कारणाभावे कार्यस्योत्पत्तिविभावना ॥ ४१ ॥
इह कारणान्वयव्यतिरेकानुविधानात् कार्यस्य कारणमन्तरेणासम्भवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदा तु कयाचिद् भङ्गया तथाभाव उपनिबध्यते, तदा विभावनाख्योऽलङ्कारः । विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिविशिष्टकारणाभावोपनिबडा । अप्रसिद्धं तु कारणं वस्तुतोऽस्तीति विरोधपरिहारः । कारणाभावेन चेहोपक्रान्तत्वाद् बलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, नंतु तेन तत्र कारणाभावः । इत्यन्योन्यबाधकत्वानुप्राणिताद् विरोधाविरुद्धयोभिन्नविषयत्वम् । यथा विरूपकार्योत्पत्तिलक्षणे विषमालकारे । इह तु नैसर्गिकस्यापि विरोधस्य विषयैक्य एव स्वरूपप्रतिलम्भः । विषयभेदे त्वनुदय एव ॥
विरोधमूलानीति । विरोधाभासमूलानीत्यर्थः । अनेन पूर्वमुक्तं विरोधगर्भत्वमेषां दर्शयति । तत्रापीति । तेष्वलङ्करणेष्वपि । सूत्रे कारणाभाव इत्यत्र कारणमात्रस्याभावो न विवक्षितः, किन्तु विशिष्टस्य कारणस्येति दर्शयितुमाह-इहेति । अन्यथा कारणमन्तरेण सम्भवे । विशिष्टतयेति । वैशिष्टयं चेतरकार्यसाधारणकारणाप्रस्तुतत्वम् । ननु यद्यत्र समाधिमत्त्वादामुखावभासी विरोधाभासोऽस्ति, तत् किमर्थं विरोधालङ्कारभेदत्वेनानुक्त्वा पृथगेषा लक्षिता । अत आह-कारणाभावेन चेति । उपकान्तत्वाद् बलवतेति । असञ्जातविरोध्यवस्थायां लब्धस्वरूपत्वाद् बलवत्त्वम् । नतु तेनेति । बाध्यमानत्वेन प्रतीयत इत्यनुपज्यते । अन्योन्यबाधकत्वेति । यथा जडीकरणतापकरणयोरन्यतरस्य
१. 'वमुक्त्वा वि', २. 'धं वि', ३. 'लङ्करणान्युच्य', ४. 'स्वे पि', ५. 'णान्तरान्व', ६. 'न का' क. ख, पाठः. ७. 'रसा' ख. पाठः,