________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
१३७ विषयत्वेन चास्य दृष्टेः श्लेषगर्भे विरोधप्रतिभोत्पत्तिहेतुः श्लेष औद्भटानाम् । दर्शनान्तरे तु सङ्करालङ्कारः । यथा'सन्निहितबालान्धकारा भास्वन्मूर्तिश्चे'त्यादौ विरोधिनोईयोरपि श्लिष्टत्वे । एकस्य तु श्लिष्टत्वे 'कुपतिमपि कलत्रवल्लभमित्यादौ । एकविषयत्वे चायनिष्यते । विषयभेदे त्वसङ्गतिप्र. भृतिर्वक्ष्यते ॥ गरस्य द्रव्यस्य दुग्धार्णवेन द्रव्येण च विरोधः । सनाधिश्च क्षयशब्दस्य नाशनिवासलक्षणार्थद्वयप्रतीतेर्बलरजोभूयस्त्वस्य यशोवैमल्यातिशयस्य च विवक्षितत्वात् । विविक्तविषयत्वेन श्लेषशून्यविषयत्वेन । अनेन च विरोधस्य दौर्बल्यहेतुसावकाशत्वं दर्शितम् । अस्य दृष्टेः विरोधस्य दर्शनात् । औद्भटानाम् उद्भटमतानुसारिणाम् । तन्मते हि श्लेषालङ्कारस्यालङ्कारान्तरप्रतिभोत्पत्तिहेतुत्वं निरटति । दर्शनान्तर इति । श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमित्येवंरूपे काव्यप्रकाशकारादिमते । सङ्करालङ्कार इति । उभयोरप्यत्र लब्धावकाशत्वेनाङ्गाङ्गिभावलक्षणः सङ्करः । तत्र प्रमुखंभानस्य समाधेश्च विरोधपरिहारयोरर्थद्वयप्रतीतिमन्तरेणासम्भवात् श्लेषस्याङ्गत्वं विरोधस्याङ्गित्वम् । चमत्कारकारित्वे तु विपर्ययः। द्वयोरपि श्लिष्टत्व इति । बालशब्दस्य बवयोरैक्येन केशबाल्यविशिष्टलक्षणार्थद्वयवृत्तित्वात् । भास्वच्छन्दस्य दीप्तिमदर्कवृत्तेश्च । एकस्य त्विति । कुपतिशब्दस्यैव भूपतिकुत्सितपतिलक्षणार्थद्वयाभिधानात् । अस्य विरोधालकारस्य वक्ष्यमाणानामसङ्गत्यादीनां चाभासमानविरोधत्वे तुल्येऽपि विशेपप्रकारमाह - एकविषयत्व इति । अत्र विषयशब्देनाश्रय उच्यते । यत्र द्वयोर्विषयैक्येन विरोधप्रादुर्भावः, तत्र विरोधालङ्कारः । यत्र तु भिन्नविषयत्वेन, तत्रासङ्गतिः । प्रभृतिग्रहणेन विषमादयः परिगृह्यन्ते । तत्र च क्वचिद् विषयभेद एव विरोधस्य निमित्तम् । यथासङ्गतौ। क्वचित् स्वतो
१. 'य', २. 'भत्वे वि', ३. 'श्लेषस्वे' क. ख. पाठः. ४. 'रद्र' ख. पाठः. ५. 'श्च ना', ६. 'तुकसा', ७. 'अङ्गा', ८. 'णः । त', ... 'खाभासन', १०. 'क', ११. 'स्वे वि' ख. ग. पाठः.