________________
अलङ्कारसूत्रं
[विरोधमहाप्रभावत्वेन समाधीयते । एवमन्यदपि ज्ञेयम् । विविक्तधीनां बहुत्वात् कथं द्रव्यत्वम् । किञ्च अब्धयोऽप्यगम्भीरा इति जातिगुणविरोधमुदाहरता काव्यप्रकाशकारेणाब्धेर्जातित्वमङ्गीकृतम् । उच्यते । एनमिति पुरोवर्तित्वेन निर्दिष्टस्य जलनिधेरेकत्वेन द्रव्यत्वमित्यदोषः । अथवा जलनिधिः पीत इत्यनेन जलनिधिपानलक्षणक्रियामात्रं निर्दिश्यते । तस्यागस्त्यमुनिलक्षणेन द्रव्येण विरोधो द्रष्टव्यः । एवमन्यदपीति । विरोधभेदाष्टकम् । तत्र चतुर्विधो जातिविरोधो यथा - वेशन्तास्तव मानसेन महता पाथोधयः कल्पिताः
कोलम्बाधिपते ! यशोभिरमलैर्मुक्तारुचः श्यामलाः । तापातिप्रशमावहाः प्रतपता शत्रून् प्रतापोष्मणा
__कल्पार्काः परमाणुरुन्नतिजुषा दोष्णा च हेमाचलः ॥ अत्र पाथोधिमुक्तारुचिकल्पार्कपरमाणुत्वानां जातीनां यथाक्रमं वेशन्तत्वश्यामलत्वतापार्तिशमनहेमाचललक्षणैर्जातिगुणक्रियाद्रव्यैर्विरोधः । समा धिश्च मनःप्रभृतीनां महत्त्वाद्यतिशयस्य विवक्षितत्वात् । त्रिविधी गुणविरोधो यथा
रूक्षा खलेषु भवतो मधुरापि वाणी
विश्वं गुणाश्च विशदा अपि रञ्जयन्ति । अश्रान्तदायिनमवेक्ष्य यदूद्वह! त्वां
कर्ण व्यवस्यति मनीषिजनः कदर्यम् ॥ अत्र माधुर्यवैशयकदर्यत्वानां गुणानां रौक्ष्यरञ्जनकर्णलक्षणैर्गुणक्रियाद्रव्यैः क्रमेण विरोधः । समाधिश्च खलदुश्शीलतानुरञ्जनलक्षणार्थान्तरवर्णनीयगतौदार्यातिशयानां विवक्षितत्वात् । द्विविधः क्रियाविरोधो द्रव्यविरोधश्च यथा
भजन्ति रिपवः क्षयं जहति च त्वयि क्रुध्यति __ स्थलीभवति चाम्बरं तव बलोद्धतैः पांसुभिः । अभूच विजयोर्जितैलवणसागरस्तावकै
यशोभिरतिनिर्मलैर्यदुनरेन्द्र ! दुग्धार्णवः ॥ अत्र क्षयप्राप्तिस्थलीभवनयोः क्षयत्यागाम्बराभ्यां क्रियाद्रव्याभ्यां लवणसा
१. किं द्र' स्व. पाठः.