________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
१३५
स च समाधानं विना प्ररूढो दोषः । सति तु समाधाने प्रमुख एवाभासमानत्वाद् विरोधाभासः । तत्रे च जातिविरोधस्य जात्यादिभिः सह चत्वारो विरोधाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह हौ । द्रव्यस्य द्रव्येण सहकः । तदेवं दश विरोधभेदाः । तत्रोदाहरणं दिङमात्रेण यथा -
"परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ " अत्र जडीकरणतापकरणयोर्विरोधो वस्तुसौन्दर्येणाप्राप्तिपर्यवसायिना परिह्रियते । तथा
"अयं वारामेको निलय इति रत्नाकर इति
-
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥” अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन
ष्वपि द्रष्टव्यम् । स च समाधानमित्यादि । यथा निदाघो मेघदुर्दिन इत्यादौ । जात्यादिभिरिति । सजातीयया जात्या विजातीयैर्गुणक्रियाद्रव्यैश्च । एवं गुणादिभिरित्यादावपि । जडीकरणतापकरणयोर्विरोध इति । विकारलक्षणैककर्तृनिष्ठतया निबद्धत्वात् । समाधानं दर्शयति वस्तु सौन्दर्येणेत्यादिना। द्रव्य क्रिययोरिति । ननु जलैनि
१. 'वावभा', २. 'त्र जा' ३ 'भेदाः । गु', ४ 'त्रे य', ५. 'यो: क्रिययोर्वि', ६. 'नि' क. ख. पाठ:. ७.
'लधी' ख. पाठ:.