SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३४ अलङ्कारसूत्रं [विरोध मानं प्रतीयते, तदायमनिष्टविधिराभासमाने आक्षेपाङ्गम् । स्मर्तव्या इत्यनेनै च गमननिवृत्तिरेवोपोइलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतया विधानबलेनोक्तः ॥ आक्षेप इष्टनिषेधेऽनिष्टविधौ चानुपपद्यमानत्वाद् विरुद्धत्वमनुप्रविष्टम् । एतत्प्रस्तावेन विरोधगर्भेऽलङ्कारवर्ग: प्रक्रियते । तत्रापि विरोधालङ्कारस्तावल्लक्ष्यते - विरुद्धाभासत्वं विरोधः ॥ ४० ॥ इह जात्यादीनां चतुर्णां पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां सम्बन्धे विरोधः । पगम्यमानं प्रतीयत इति । पन्थानः कुशला भवन्त्वित्यादिभणितिभङ्गया । ननूत्तरार्धे किन्त्वेतदित्यादिवचोभङ्गथा प्रस्थानमभ्युपेत्यैव कस्यचित् कार्यस्याभ्यर्थितत्वप्रतीतेः प्ररोहेऽपि कान्तप्रस्थानस्याभ्युपगमः प्रती - यते । तत् कथं प्रमुख एवेत्युक्तमत आह स्मर्तव्या इत्यनेनेति । अयमर्थः एवंविधा गोदावरीवीचयस्त्वद्वि रहे मम सातिशयतापहेतवो भवेयुः । ताश्च प्रस्थितेन त्वया यदि स्मर्येरन्, तदवश्यं गमनोद्यमो नित्रतेति गमननिवृत्तिहेतुतयैव स्मरणस्य प्रस्तावः नतु कर्तव्यतयेति । अतः प्रस्थानस्य प्ररोहेऽनभ्युपगतिरेवेति विध्याभासत्वादिदमप्युदाहरणं युक्तमेवेति । एतत्प्रतिपादनार्थमेवोदाहृतेऽप्युदाहरणोपन्यासः ॥ एतत्प्रस्तावेन विरुद्धत्वप्रस्तावेन । विरोधग ( भै ? र्भ इ ) ति । विरोधालङ्कारेऽपि विरोधमात्रस्य नालङ्कारत्वम्, अपितु समाधिमत एवेति विरोधगर्भत्वं द्रष्टव्यम् | प्रक्रियत इति । संप्रकारं प्रदर्श्यत इत्यर्थः । विरुद्धाभासत्वमिति । अविरुद्धत्वेऽपि विरुद्धवदवभासमानो विरुद्धाभासः, तस्य भावस्तत्त्वम् । जात्यादीनामिति । जातिगुणक्रियाद्रव्याणाम् । तन्मध्ये जात्यादिमध्ये । सजातीयविजातीयाभ्यामिति । जातेजात्यन्तरं सजातीयः पदार्थः । गुणादित्रयं विजातीयः । एवं गुणादि १. 'नश्चाक्षे', २. 'ङ्गमित्य' ३. 'न ग', ४. 'तानुवि', ५. 'भ्यां स' क. ख. पाठः -
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy